________________
व्याख्याप्रज्ञप्तिः अभयदेवीपा वृत्तिः
३ शतके उद्देशः २ प००१७८ शक्रादीनामूर्खादिगतिः
मु०१४७
*4-9454
एतयोश्चापान्तरालवर्ति तिर्यकक्षेत्रमतोऽपान्तरालप्रमाणेनैव तेन भवितव्यमित्यधःक्षेत्रापेक्षया तिर्यकक्षेत्रं सार्द्ध योजनं भवतीति व्या| ख्यातं, आह च चूर्णिकार:-'एगेणं समएणं ओवयइ अहे जोयणं एगेणेव समएणं तिरिय दिवइढं गच्छइ उड्ढं दो जोयणाणि
सक्कोति ॥ 'चमरस्स ण'मित्यादि 'सम्वत्थोवं खेत्तं चमरे ३ उड्ढे उप्पयइ एकेण समएणं'ति ऊर्ध्वगतौ मन्दगतित्वात्तस्य, तच्च | किल कल्पनया त्रिभागन्यूनं गव्यतत्रयं, 'तिरियं संखेजे भागेत्ति तस्मिन्नेव पूर्वोक्ते त्रिभागन्यूनगव्यतत्रये द्विगुणिते ये योजनस्य सङ्खयेया भागा भवन्ति तान् गच्छति, तिर्यग्गतौ शीघ्रतरगतित्वात्तस्य, 'अहे संखेजे भागे गच्छइत्ति पूर्वोक्ते त्रिभागद्वयन्यूने गव्यूतषद्के त्रिभागन्यूनगव्यूतत्रये मीलिते ये सख्येया भागा भवन्ति तान् गच्छति, योजनद्वयमित्यर्थः, अथ कथं सङ्ख यातभाग| मात्रोपादाने नियतसङ्खयेयभागत्वं व्याख्यायते ?, उच्यते, शक्रस्योर्ध्वगतेश्चमरस्य चाधोगतेः समत्वमुक्तं, शक्रस्य चोर्ध्वगमनं सम| येन योजनद्वयरूपं कल्पितमतश्चमरस्याधोगमनं समयेन योजनद्वयमुक्तं, तथा 'जावइयं सके ३ उड्ढे उप्पयइ एगेणं समएणं तं वजं
दोहि, जं वजं दोहिं तं चमरे तीहिंति वचनसामर्थ्यात् प्रतीयते शक्रस्य यर्च गतिक्षेत्रं तस्य त्रिभागमात्ररूपं चमरस्योर्ध्वगतिक्षेत्र, | अतो व्याख्यातं त्रिभागन्यूनत्रिगव्यूतमानं तदिति, ऊर्ध्वक्षेत्राधोगतिक्षेत्रयोश्चापान्तरालवर्ति तिर्यक्षेत्रमितिकृत्वा त्रिभागद्वयन्यूनषड्गब्यूतमानं तद्व्याख्यातमिति, यच्च चूर्णिकारेणोक्तं-'चमरो उड्ड जोयण'मित्यादि तनावगतं, 'वजं जहा सक्कस्स तहेवत्ति वज्रमाश्रित्य गतिविषयस्याल्पबहुत्वं वाच्यं यथा शक्रस्य तथैव, विशेषयोतनाथं त्वाह-'नवरं विसेसाहियं कायव्वं ति, तच्चैवम्'वजस्स णं भंते ! उड्ढं अहे तिरियं च गइविसयस्स कयरे कयरेहितो अप्पे वा ४ १, गोयमा ! सव्वत्थोवं खेत्तं वजे अहे ओवयइ | एकेणं समएणं, तिरियं विसेसाहिए भागे गच्छइ'त्ति, वाचनान्तरे तु एतत्साक्षादेवोक्तमिति, अस्थायमर्थ:-सर्वस्तोकं क्षेत्रं वज्रमधो
|