________________
ध्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३२०॥
|३ शतके
उद्देशः२ | शक्रादीनामूर्खादि
गतिः सु०१४७
RAKAR
बजत्येकेन समयेन, अधो मन्दगतित्वात्तस्य वज्रस्य, तच्च किल कल्पनया त्रिभागन्यनं योजनं, तिर्यक् तच्च विशेषाधिको भागौ गच्छति, शीघ्रतरगतित्वात् , तौ च किल योजनस्य द्वौ त्रिभागौ विशेषाधिकौ, सत्रिभागं गव्यतत्रयमित्यर्थः, तथोवं विशेषाधिको भागौ गच्छति, यौ किल तिर्यग्विशेषाधिको भागौ गच्छति तावेवोर्ध्वगतो किश्चिद्विशेषाधिको, ऊर्ध्वगतौ शीघ्रतरगतित्वात् , परिपूर्ण योजनमित्यर्थः, अथ कथं सामान्यतो विशेषाधिकत्वेऽभिहिते नियतभागत्वं ब्याख्यायते !, उच्यते, 'जावइयं चमरे ३ अहे ओवयइ एक्केणं समएणं तावइयं सक्के दोहिं, जं सके दोहिं तं वज्जे तीहिंति वचनसामर्थ्याच्छकाधोगत्यपेक्षया वज्रस्य त्रिभागन्यूनाधोगतिर्लब्धेति त्रिभागन्यूनं योजनमिति सा व्याख्याता, तथा 'सक्कस्स ओवयणकाले वजस्स य उप्पयणकाले एस णं दोण्डवि तुल्ले' इति | वचनादवसीयते यावदेकेन समयेन शक्रोऽथो गच्छति तावद्वज्रमूवं, शक्रश्चकेनाधः किल योजनं एवं वज्रमूज़ योजनमितिक| त्वोचं योजनं तस्योक्तं, ऊर्ध्वाधोगत्योश्च तिर्यग्गतेरपान्तरालवर्तित्वात्तदपान्तरालवत्यैव सत्रिभागगव्यूतत्रयलक्षणं तिर्यग्गतिप्रमाणमुक्तमिति ॥ अनन्तरं गतिविषयस्य क्षेत्रस्याल्पबहुत्वमुक्तं, अथ गतिकालस्य तदाह-'सकस्स ण'मित्यादि सूत्रत्रयं । शक्रादीनां गतिकालस्य प्रत्येकमल्पबहुत्वमुक्तं, अथ परस्परापेक्षया तदाह-'एयस्स णं भंते ! वजस्से'त्यादि, 'एए णं दोषिणवि तल्ल'त्ति शक्रचमरयोः स्वस्थानगमनं प्रति वेगस्य समत्वादुत्पतनावपतनकालौ तयोस्तुल्यौ परस्परेण, 'सव्वत्थोव'त्ति वक्ष्यमाणापेक्षयेति, तथा 'सक्कस्से' त्यादौ 'एस णं दोण्हवि तुल्ले त्ति उभयोरपि तुल्या, शक्रावपतनकालो वजोत्पातकालस्य तुल्यः, वज्रोत्पातकालश्च शक्रावपतनकालस्य तुल्य इत्यर्थः, 'संखेजगुणे'त्ति शक्रोत्पातचमरावपातकालापेक्षया, एवमनन्तरसूत्रमपि भावनीयम् ॥
तए णं चमरे असुरिंदे असुरराया वजभयविप्पमुक्के सक्केणं देविंदेणं देवरन्ना महया अवमाणेणं अवमाणिए
RCRAF%
॥३२०॥
आ०१७९