________________
व्याख्या
३ शतके उद्देशः शक्रादीनामूर्खादि
पज्ञप्तिः अभयदेवीया वृत्तिः ॥३१॥
गतिः
सू०१४७
पः कालभेदो भवति तं प्रत्येकं दर्शयन्नाह-'जावइय'मित्यादि, अथेन्द्रस्योर्वाधाक्षेत्रगमने कालभेदमाह-'सव्वत्थोवे सक्कस्से'त्यादि, 'सर्वस्तोकं' स्वल्पं शक्रस्य ऊर्ध्वलोकगमने ख(क)ण्डकं-कालखण्डं ऊर्बलोककण्डकं, ऊर्ध्वलोकगमनेऽतिशीघ्रत्वात्तस्य, अधोलोकगमने कण्डकं-कालखण्डमधोलोककण्डकं सङ्घयातगुणं. ऊर्ध्वलोककण्डकापेक्षया द्विगुणमित्यर्थः, अधोलोकगमने शक्रस्य मन्द| गतित्वात् , द्विगुणत्वं च 'सक्कस्स उप्पयणकाले चमरस्स य ओवयणकाले एए णं दोण्णिवि तुल्ला' तथा 'जावतियं खेत्तं चमरे ३ अहे
ओवयइ इकेणं समएणं तं सको दोहिंति वक्ष्यमाणवचनद्वयसामर्थ्याल्लभ्यमिति, 'जावइय'मित्यादिसूत्रद्वयमधःक्षेत्रापेक्षं पूर्ववद्व्याख्येयं, 'एवं खलु' इत्यादि च निगमनम् । अथ शक्रादीनां प्रत्येकं गतिक्षेत्रस्याल्पबहुत्वोपदर्शनाय सूत्रत्रयमाह-'सक्कस्से'त्यादि, तत्र ऊर्ध्वमधस्तिर्यक् च यो गतिविषयो-गतिविषयभूतं क्षेत्रमनेकविधं तस्य मध्ये कतरो गतिविषयः कतरसाद्गतिविषयात्सकाशादल्पादिः ? इति प्रश्नः, उत्तरं तु सर्वस्तोकमधःक्षेत्रं समयेनावपतति, अधो मन्दगतित्वाच्छक्रस्य, 'तिरिय संखेजे भागे गच्छइत्ति कल्पनया किलैकेन समयेन योजनमधो गच्छति शक्रः, तत्र च योजने द्विधाकृते द्वौ भागौ भवतः, तयोश्चैकस्मिन् द्विभागे मीलिते त्रयः सङ्गयेया भागा भवन्ति, अतस्तान् तिर्यग गच्छति, सार्द्ध योजनमित्यर्थः, तिर्यग्गतौ तस्य शीघ्रगतित्वात् , 'उड्ढं संखेजे भागे गच्छह'त्ति यान् किल कल्पनया त्रीन् द्विभागांस्तिर्यग्गच्छति तेषु चतुर्थेऽन्यस्मिन् द्विभागे मीलिते चत्वारो द्विभागरूपाः सङ्ख्यातभागाः संभवन्ति अतस्तान्र्द्ध गच्छति । अथ कथं सूत्रे सङ्ख्यातभागमात्रग्रहणे सतीदं नियतभागव्याख्यानं क्रियते ?. उच्यते. 'जावइयं खेत्तं चमरे ३ अहे ओवयइ एक्केणं समएणं तं सक्के दोहिं' तथा 'सक्कस्स उप्पयणकाले चमरस्स ओवयणकाले एते थे| दोनिवि तुल्ला' इति वचनतो निश्चीयते-शको यावदधो द्वाभ्यां समयाभ्यां गच्छति तावदूर्ध्वमेकेनेति द्विगुणमधाक्षेत्रादर्ध्वक्षेत्रं.
R5R-Cons
|३१८॥