________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३१२॥
३ शतके उद्देशः २ चमरोत्पात: स०१४३
RRRRRRRRR
'घोरं ति हिंस्रां, कथम् ?-यतो 'घोराकारां' हिंस्राकृति 'भीम'ति 'भीमा' विकरालत्वेन भयजनिकां, कथम् ?-यतो 'भीमाकारां' भयजनकाकृति 'भासुरंति भास्वरां 'भयाणीयंति भयमानीतं यया सा भयानीताऽतस्ताम् , अथवा भयं भयहेतुत्वादनीकं-तत्परिवारभूतमुल्कास्फुलिङ्गादि सैन्यं यस्याः सा भयानीकाऽतस्तां 'गंभीर'ति गम्भीरां विकीर्णावयवत्वात् 'उत्तासणय'त्ति उत्रासनिकां'त्रसी उद्वेगे' इति वचनात् स्मरणेनाप्युद्वेगजनिकां 'महाबोंदिन्ति महाप्रभाबतनुम् 'अप्फोडेइत्ति करास्फोटं करोति 'पायदद्दरगं'ति भूमेः पादेनास्फोटनम् 'उच्छोलेइति अग्रतोमुखां चपेटां ददाति 'पच्छोलेइत्ति पृष्ठतोमुखां चपेटां ददाति 'तिवई छिंदइत्ति मल्ल इव रङ्गभूमौ त्रिपदीच्छेदं करोति 'ऊसवेइति उच्छृतं करोति "विडंबेईत्ति विवृतं करोति 'साकड्ढेतेवत्ति समाकर्षयन्निव 'विउज्झाएमाणे'त्ति व्युभ्राजमानः-शोभमानो विजृम्भमाणो वा व्युभ्राजयन् वाऽम्बरतले परिघरत्नमिति योगः 'इंदकील'त्ति गोपुरकपाटयुगसन्धिनिवेशस्थानम् । 'नाहि तेत्ति नैव तव । 'फुलिंगजाले त्यादि स्फुलिङ्गानां ज्वालानां च या मालास्तासां च यानि सहस्राणि तानि तथा तैः, चक्षुर्विक्षेपश्च-चक्षुर्भमः दृष्टिप्रतिघातश्च-दर्शनाभावः चक्षुर्विक्षेपदृष्टिप्रतिघातं तदपि कुर्वत् , अपि विशेषणसमुच्चये 'हुतवहे' त्यादि, हुतवहातिरेकेण यत्तेजस्तन दीप्यमानं यत्तत्तथा 'जइणवेगं'ति जयी शेष| वेगवद्वेगजयी वेगो यस्य तत्तथा 'महन्भय'ति महतां भयममादिति महद्भयं, कसादेवमित्यत आह-'भयङ्करं भयकर्तृ । 'झियाइति 'ध्यायति' किमेतत् ? इति चिन्तयति, तथा 'पिहाईत्ति 'स्पृहयति' यद्येवंविधं प्रहरणं ममापि स्यादित्येवं तदभिलपति, खस्थानगमनं वाभिलपति, अथवा 'पिहाईत्ति अक्षिणी पिधत्ते-निमीलयति, 'पिहाइ झियाइति पूर्वोक्तमेव क्रियाद्वयं व्यत्ययेन करोति, अनेन च तस्यातिव्याकुलतोक्ता, 'तहेव'ति यथा ध्यातवांस्तथैव तत्क्षण एवेत्यर्थः, 'संभग्गमउडविडवे ति संभग्नो मुकुटविटप: