________________
३ तपो
पुष्पमाला लघुवृत्तिः ॥६९॥
ऽधिकारे स्कंदकोदा
सन्देहत्वाच प्रतिबोधस्तख
SSSSSSSE
व्याख्या-यद्यपि तेनैव भवेन केचिन्न सिद्ध्यन्ति, तथापि तपसा विधूतरजसोऽत्यल्पकर्माणस्सन्तो महाकल्पेषु-महर्द्धिदेवलोकेषु | सुरा भवन्ति । ततोऽपि च्युत्वा महाविदेहेषु बोधि लब्ध्वा 'तपसा विधूतरजस' इत्यावृत्त्या अत्रापि योज्यते, तपसा क्षपितकर्माणः, सिद्धथन्तीति शेषः । क इव ?, यथा स्कन्दको महात्मा-शिष्यः श्रीवीरस्वामिनः, तत्कथा चेयम्
कयङ्गलापुर्यां श्रीवीरः समवसृतः, प्रत्यासन्नश्रावस्तीपुाँ गईभालिपरिव्राजकशिष्यः स्कन्दकश्चतुर्वेदस्मृतिपुराणादिग्रन्थनिपुणः परिवसति । स श्रीवीरशिष्येण पिङ्गलेन पृष्टः-भो स्कन्दक ! 'किं सअंते लोए अणते लोए ?, एवं जीवे सिद्धी सिद्ध चि पुच्छियव्वे. | केण वा मरणेण जीवे संसारमणुपरियट्टइ ?, केण वा तं वीइबयइ ?, तएणं से खंदए परिवायए एयम€ अयाणमाणे तुसिणीए चिइ ।। | एवं दोच्चपि तञ्चपि पुच्छिए तुसिणीए चिट्ठई। ततः श्रावस्त्या लोकं श्रीवीरवन्दनाथ यान्तं दृष्ट्वा सोऽपि स्वसन्देहपृच्छार्थ चचाल ।
एतावता श्रीवीरेण गौतमस्य पिङ्गलप्रश्नस्कन्दकानवगमस्वरूपमुक्तम् । ततः समागते स्कन्दके श्रीगौतमः सम्मुखं गतः, स्वागतमपृच्छत् पिङ्गलप्रश्नस्वरूपं च । तत् श्रुत्वा विस्मितः स्कन्दकः प्राह-कथं जानासि ?, श्रीगौतमेनोक्तं-मम धर्माचार्येणोक्तमिति । ततः प्रमुदितः सर्वज्ञप्रत्ययत्वादवन्दत श्रीवीरं । भगवता च तत्सन्देहाः कथिताः, यथा-'खंदया! दबओ ण लोए एगदव्वे, अओ सोते, खित्तओ | वि सव्वासु दिसासु असंखिजे जोअणकोडाकोडिप्पमाणे, अओ संअंते । कालओ सया वि चिट्ठइ त्ति अणते, भावओ(वि) अणंतपजायतणओ अणंते, एवं जीवे सिद्धि (सिद्धे)वि भाणियव्वे । नवरं-खित्तओ अप्पऽप्पणो पमाणं भाणियध्वं । मरणे वि खंदया! दुविहे पन्नत्ते, तं जहा-बालमरणे य पंडियमरणे य । तत्थ णं बालमरणेणं मरमाणे जीवे अप्पाणं अणंतेहिं नेरइयतिरियमणुयदेवभवग्गहमेहिं संजोएइ संसारमगुपरियदृइ । पंडियमरणेण मरमाणे जीवे संसारं बीइवयई' इति श्रुत्वा स्कन्दको बुद्धः । श्रीवीरोपदेशं श्रुत्वा प्राह-आलित्ते णं
उREKARAN
॥६९।