________________
S
पुष्पमाला लघुवृत्तिः ॥ ६८॥
मुचिः सुव्रताचार्यानाकार्य तमेव दोषमुद्भाव्य भणति क्षुद्रः-यूयं लोकव्यवहारवाह्याः, अतो मुश्चत मम राज्यं, अन्यथा मारयिष्यामि । | ततः मूरिभिबहुधा प्रज्ञापितोऽपि न मन्यते। तत उद्याने गत्वाऽऽचायः साधवः पृष्टाः-किं कर्तव्यं ?, तत एकेन साधुनोक्तम्-भगवन् ! | मेरुशिरस्थो विष्णुकुमारश्चक्रिभ्राता यद्यायाति तदा तद्वचनेन नमुचिर्मुञ्चति कदाग्रह, नान्यथा । गुरुराह-साधूक्तं, परं स कथमायाति?। | एकेनोक्तं-अहं तत्र गन्तुं शक्तो, न पुनः प्रत्यागन्तुं । गुरुराह-स एव भवन्तमानेष्यति । ततस्तेन मेस्चूलायां गत्वा सङ्घकार्य निवेदितं विष्णुकुमाः । सोऽपि तं गृहीत्वा क्षणेन प्राप्तो गुर्वन्तिकं । ततः प्राप्तो नमुचिपाश्च, धर्मोपदेशात्क्रमत्रयभूदाने कुपितेन विष्णुना साधिकलक्षयोजनरूपकरणेन ग्रामाकरनगरगिरिभवनवनज्योतिष्कक्षोभं जनयता नमुचिः शिरसि पादं दत्वा रसातले क्षिप्तः । पूर्वापरसागरपदस्थापने भुवनक्षोभे शक्रप्रेषितसुराङ्गनाभिस्तत्काभ्वर्णमागत्य प्रशमप्रधानगानेन सङ्घवचनेन चक्रिणा च ससम्भ्रमेण सपरिजनेन क्षामितः कथमप्युपशान्तस्तत्प्रभृति त्रिविक्रम इति प्रसिद्धः, आलोचितप्रतिक्रान्तः शुद्धः, यदुक्तम्"आयरिए गच्छम्मि य, कुलगणसंघे य चेहयविणासे। आलोइयपडितो, सुद्धोज निजरा विउला ॥१॥" " पाविय केवलनाणो, विण्डकुमारो कमेण तो मिद्धो । चक्की वि महापउमो, गहिऊण वयं गओ सिद्धिं ॥२॥" |
इति विष्णुकुमारचरितं समाप्तम् ।
H
३ तपोअधिकारे तपसः प्रभावकत्व
ख्यापकं | विष्णुकुमा रचरितम्
निकम
RECRECRee
__पुनस्तपोमाहात्म्यं ख्यापयन् दृष्टान्तमाहइ होति महाकप्पसुरा, बोहिं लहिउं तवेण विहुयरया । जह खंदओ महप्पा, सीसो सिरिवीरनाहस्स ॥४॥