________________
पुष्पमाला लघुवृचिः
॥ ६७ ॥
मसूचितो द्वितीयो महापद्मः । ज्येष्ठो निःस्पृहः, इतरः समीहते, इति राज्ञा युवराजत्वे स्थापितः । इतश्चोजयिन्यां श्रीमुनिसुव्रतशिष्याः सुव्रताचार्य्याः समायाताः, श्रीधर्म्मनृपो वन्दनार्थं गतः, तदमात्यो नमुचिर्नास्तिको धर्मनिन्दां कुर्वन् क्षुल्लकेन वादे जितः साधुषु प्रद्विष्टो रात्रौ साधुमारणार्थ गतो देवतया तत्रैव स्तम्भितः । प्रभाते राज्ञा लोकैश्च दृष्टो निन्द्यमानो लज्जया निर्गत्य हस्तिनागपुरे गतः, तत्र महापद्मकुमारसेवां करोति । अन्यदा महापद्मकुमारग्रामान् भञ्जन् सिंहबलनृपो नमुचिना प्रपञ्चेन बद्ध्वाऽऽनीतस्तुष्टेन कुमारेण वरो दत्तः, तेनोक्तं-समये गृहीष्ये वरं । अन्यदा ज्वालादेवी श्रीजिनप्रासादं कारयित्वा रथयात्रोपक्रममकरोत् । अपरा सपत्नी लक्ष्मीः, सा स्पर्द्धया ब्रह्मायतनं कारयित्वा रथयात्रामारेभे । तयोः प्रथमरथनिस्सरणे स्पर्द्धा ज्ञात्वा द्वावपि रथौ राज्ञा स्थापितौ । ततः स्वमातुः पराभवं ज्ञात्वा महापद्मो देशान्तरेषु भ्रमन्ननेके विद्याधरनृपामात्य पुत्रिकाः परिणीय महाविभूत्या चम्पापुरीप्रभोर्जन्मेजयस्य पुत्रीं मदनावलीं स्त्रीरत्नं परिणीय चक्रवर्त्तिऋद्धिसमृद्धः खपुरमगात् पित्रा राज्याभिषेकः कृतः, स्वयं सुत्रताचार्यपार्श्वे दीक्षां प्रपेदे । विष्णुकुमारोऽपि पित्रा समं प्रव्रजितः । महापद्मः क्रमात् साघितपट्खण्डभूमण्डलो नवमश्चक्री सञ्जातः । तदा जननीकारितं जिनरथं महाविभृत्या भ्रमयित्वा मातुर्मनोरथः पूरितः । भरतक्षेत्रे जिनभवनकोट्यः कारिताः, द्वात्रिंशत्सहस्रा राजानो धर्मे स्थापिताः, अनेकधा शासनोन्नतिः कृता, पद्मोत्तरराजर्षिस्तु विगतकर्मा मोक्षमगात् । विष्णुकुमारः पुनस्तपःप्रभावान्न भोगमनवैक्रिय लब्ध्यादिलब्धिसमृद्धो मेरु चूलिकास्थस्तपः करोति । इतश्च ते सुव्रताचार्या हस्तिनागपुरे वर्षारात्रं स्थिताः क्वचिन्नमुचिना दृष्टाः । ततः पूर्ववैरं स्मृत्वा पूर्वप्रतिपन्नं वरमयाचत राजानं नमुचिः । ततो राजा तद्याचितं कतिचिद्दिनानि राज्य मदात् । स्वयमन्तःपुरे स्थितः । नमुचिरपि कपटेन बहिर्य - ज्ञपाटके दीक्षितो जातः, प्रारब्धं यज्ञकर्म्म, तत्र लोकाः पाखण्डिभिः सह सर्वे वर्द्धापनके समायाताः, न पुनः श्वेतभिक्षवः । ततो न
३ तपोऽधिकारे
तपसः प्रभावकत्व
ख्यापकं
विष्णुकुमारचरितम्
॥ ६७ ॥