________________
पुष्पमाला लघुत्तिः
२ शीलाधिकारे सीतापत्रजनादिव्य देवसिका. चरितं च
*A
राज्यस्वामित्वविषयः प्रार्थयति सीतां, सीता तु 'येषु गद्धया मया विनाऽप्यपराधमियद् दुःख प्राप्त, अथ तेषु कः प्रतिबन्धः?' इत्याद्युक्त्वा तदेव शिरसि लोच कृतवती, ततो देवैर्दत्तवेषा केवलिसमीपे नीता चरणं प्रतिपद्य सम्यगाराध्याच्युतेन्द्रोऽभूत् । रामस्य तु यथोचितं वाच्यम् । [सीतया] पूर्वभवे वेगवत्या नाम्न्या ग्रामेण पूज्यमानस्य साधोर्मत्सरेण कलको दत्तः, ततो लोकः साधौ विरक्तः, देवतानुभावात् तस्या मुखं स्यून, ततो भीता सा 'मयाऽलीकमुक्त'मिति लोके प्रोचे, ततः पुनर्मुनेः पूजा, इति यन्मुनेरभ्याख्यानं दत्तं शोधिश्च कृता, तेन कर्मणा तस्या द्वयमपि जातमिति ॥ इति श्रीसीताऽऽख्यानं समाप्तम् ।।
देव[सिका]सेना (?) चरितं त्विदम्-ताम्रलिप्तीपुर्यां कमलाकरश्रेष्ठी, जिनसेनः पुत्रो जिनधर्मपरः, स च रत्नाकरपुरनिवासिधर्म| गुप्तश्रेष्ठिपुत्री देव[सिकां]सेनां (?) परिणीतवान् । अन्यदा पितयुपरते जिनसेनोऽर्थोपार्जनाय देशान्तरं गच्छन् देव[सिकया]सेनया (?) भणितः-नाथ ! त्वं तत्र गतोऽन्यान्यरमणीभिर्लोभयिष्यसे । स प्राह-यावजीवं ममापररमणीरमणे नियम इति, तथापि सा न प्रत्येति । ततो जिनसेनो देवतामाराध्य तद्दत्तं पद्मद्वयं लात्वैकं पत्न्याः करे समापरं स्खकरे कृत्वा बभाण-त्वच्छीलस्खलने मत्कर| कमलं मच्छीलस्खलने त्वत्करकमलं शुष्यतीति प्रत्ययः । ततः क्रयाणकानि गृहीत्वा स्वस्थचित्तो जलाध्वना पाचकूलमगात् । तत्र राज| मान्यो व्यवसायं कुर्वन् प्रत्यहं करकृतकमलस्तत्पुरनिवासिव्यवहारिपुत्रैश्चतुर्भिदृष्टस्तत्कमलस्वरूपं पृष्टो यथार्थ प्राह । ते तथाऽश्रद्दधानाश्चत्वारोऽपि ताम्रलिप्त्यामागताः, कस्याश्चित् परित्राजिकाया गृहे स्थिताः, तैर्लक्ष लक्ष द्रव्यं मानयित्वा तस्य गृहे प्रेषिता परित्राजिका देव[सिकाग्रे]सेनाऽग्रे धर्मकथां कथयति । सा शृणोति, प्रत्यहं यात्यायाति सा । अन्यदा परिवाजिकया तस्या गृहशुन्याचूर्णमिश्राहारो दत्तस्तस्या नेत्रे स्पन्देते, तदृष्ट्वा देव सिकया सेनया (?) कारणं पृष्टा परिवाजिका प्रपश्चन कूटध्यानं नाटयित्वा प्राह-इयं शुनी
CCES
॥ ५५