SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ CAL | २ शीला|धिकारे सीतानिर्वासनं पुत्रयुगप्रसवनं च। गाथाक्षरार्थः। तत्र सीताचरित्रं सुप्रसिद्धमेवेति नेह विस्तरेणोच्यते, स्थानाशून्यार्थ तु किश्चिदुच्यते,तद्यथा-लङ्काधिपं निहत्य स्वपुर्यामयोपुष्पमाला ध्यायामानीतायाः सीताया गर्भे समुत्पन्ने मासद्वयेऽतिक्रान्ते रामेण दोहदे पूरिते अन्यदा पूर्वाजिंततीव्रकर्मोदयादतीवापवादः प्रासापर्षीत् , लघुवृत्तिः यदुत-'इयच्चिरं रावणगृहे कथमखण्डशीला सीता ? इति । ततोऽपवादभीरू रामः सीतात्यागाय लक्ष्मणमादिदेश । स च निःश्वस्याह॥५३॥ __“जइ चलइ मंदरो सुसह, सायरो ल्हसइ मयलदिसिचकं । तहवि हुन चलह सीलं, सीआए महासइवराए ॥१॥" किश्चPI"कत्तो वि दुजणाण, अविजमाणो वि फुरइ परदोसो। सच्छा वि हु सूरकरा, कलुसल्लिया कोसियकुलस्म ॥२॥" किञ्च-सीतायां त्यक्तायां त्रिभुवनेऽपि तेऽपवादः । अमुक्तायां तु पुर्यामेव संशयितः स इति । तथापि रामे तमसदाग्रहममुश्चत्युहै| द्विनो लक्ष्मणः स्वगृहं गतः । ततो रामादिष्टः कृतान्तवदनः सेनानी: सीतामाह-वामिनि ! जिनभवनवन्दनदोहदस्तेऽभूत् तदत्र तानि | वन्दितानि, शेषदेशेषु तद्वन्दने रघुराजेनाहमादिष्टस्ततो रथमारोहतु स्वामिनी इति । साऽपि हृष्टा तथाऽकरोत् । ततो ग्रामाकरनगररम्यां | बहुमहीमुल्लङ्घय गङ्गापरपारे भीषणारण्ये रथं संस्थाप्य गद्गदगिरा रामादेशं सहेतुं सीतायै न्यवेदयत् सः। सीता तु तदाकर्ण्य मूञ्छिता दभूमौ पपात, तेनोपचरिता तु लब्धचैतन्या देवं नानोपालम्भैः सम्भावयन्ती विलपति पतति मूर्च्छति । सेनानीरपि तां तथा पश्यन् स्वं निन्दन विलम्बमानोऽपि गत्वा रामाय तजगौ। रामोऽपि तत् श्रुत्वा मृच्छति विलपति, सीता गुणान् स्मारं स्मारं पश्चात्तापं करोति । | इतश्च पुण्डरीकपुरेशः सुश्रावको वज्रजङ्घराजा गजबन्धनाय तत्रागतो विलपन्ती सीतां भगिनीत्वेन प्रतिपद्य स्वगृहेऽनपीत् । सा च तत्र पुत्रयुगं सुलग्ने लव-कुशनामकं प्रासूत । तारुण्ये लवो बहुकन्याः परिणिन्ये । कुशार्थे तु पृथुराजा प्रार्थितः 'कथमज्ञातकुलशीलस्य सुतां 18/॥ २३ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy