SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुपत्तिः ॥५१॥ हरणे 649545519555 पश्चात्तापश्च तया प्रतिबोध्य परदारविरतिं ग्राहितः, तत्र धनमुपायं सर्वे स्वस्थान प्राप्ताः । ऋद्धिसुन्दरी समये प्रत्रज्य स्वर्ग गता २शीलामन्त्रिपुत्री बुद्धिसुन्दरी सार्थवाहपुत्रेण परिणीता । पितृगृहे गवाक्षस्था नृपेण दृष्टा । तदनुरक्तो राजा मिथ्यादोषमुद्भाव्य सकु- || धिकारे टुम्बं तं धृत्वा दिव्यशुद्धं चाह-विराधितस्त्वमिति, यदि परं उल्लेन त्वां मुञ्चामि । मन्त्री प्राह-यंदादिशति देवः, ततो राज्ञाऽऽदिष्टा बुद्धि-गुणबुद्धिसुन्दरी उल्ले मुक्ता । ततः सा राज्ञाऽभ्यर्थिता न मन्यते । अन्यदा तया स्वानुकारा मदनमयी पुत्रिकाऽमेध्यभृता कारिता शृङ्गारिता सुन्दयुदा| स्वस्थाने मुक्ता । स्वयं च प्रच्छन्ना स्थिता । रात्रौ राजा तत्रागतः। पुत्रिकां तद्बुद्धयाऽऽलापयति । अभाषमाणायाश्चालापयितुं यावन्मु-18 खमुन्नमयति तावत् प्रागेवालग्नमुक्तं शिरः पपात । प्रसृतो दुर्गन्धः, मुखं मोटयन् किमेतदिति चिन्तयति नृपस्तावता सा प्रकटीभूय प्राह-यादृशीयं तादृश्यहमपि बही रम्याऽन्तरमेध्यपूर्णा, तथा च-"अशुचिरसमांसमिश्राणि, यत्रास्थीन्येव केवलानि पुनः। अजिनेन | वेष्टितानि च, को देहेऽत्राभिरमते तत् १ ॥१॥” इत्यायुक्तोऽपि यावन्न प्रतिबुद्धयते नृपस्तावत्सा सहसा गवाक्षात्स्वं मुक्त्वा भूमौ पपात । 15 ततो लजितो नृपस्तत्रागत्य कृतोपचारां तां भगिनीं भणित्वा क्षामयित्वा तद्वचसा परदारविरतिं जग्राह । लोके यशोऽजनि । कालेन : प्रव्रज्य खग गता ॥३॥ पुरोधसः पुत्री गुणसुन्दरी श्रावस्त्यां विप्रपुत्रेण परिणीता । सा साकेतपुरविप्रपुत्रेण पल्लीतो भिल्लधाटीमा| नीय सरूपत्वाद्गृहीता, पल्ल्यां सा तेन प्रार्थ्यमाना चूर्णयोगेनातीसारमकरोत् स्वदेहे, स च तस्या अनेकप्रतीकारपरोऽप्यनिवर्त्यमाने ४ तस्मिन्नशुचिखरण्टितां तां दृष्ट्वा निर्विष्णः । तदा ज्ञातभावया तया प्रतिबोधितस्तां श्रावस्त्यां स्वपिटगृहे मुमोच । अन्यदा सर्पदष्टो द्विजस्तयोपचरितो जिनधर्म परदारविरतिं च प्रतिपन्नः । साऽपि वैराग्यात् प्रव्रज्य स्वर्ग गता ॥ ४ ॥ ॥५१॥ एवं चतस्रोऽप्येताः शीलप्रभावात् स्वर्गसौख्यं भुक्त्वा चम्पापुर्यां महेभ्यगृहेषु पृथकपृथगुत्पन्ना रूपसौभाग्ययुताः । तत्रेभ्यपुत्रेण
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy