________________
पुष्पमाला लघुवृतिः
॥ ४९ ॥
व्याख्या – इत्युक्तप्रकारेण एकमपि दानं निःशेषगुणगणनिधानं भणितं । यदि पुनः शीलमपि - परकलत्रादिवर्जनरूपं देशतो ब्रह्मचर्यपालनलक्षणं, तत्र - दानदायके प्राणिनि भवेत्तदा गुणभणनमाश्रित्य "मुद्दियं "ति मुद्रितं - स्थगितं भुवनं नातः परं गुणकथा भुवनेऽस्तीति भाव इति गाथार्थः ।। ६० ।। उक्तार्थसमर्थनायैव शीलगुणान् दिदर्शयिषुराह—
जं देवाण वि पुज्जो, भिक्खानिरओ वि सीलसं पुन्नो । पुहइवई वि कुसीलो, परिहरणिजो बुहयणस्स ॥ ६१॥ व्याख्या—“जं”ति यस्माद् भिक्षानिरतोऽपि शीलसम्पूर्णश्वेदेवानामपि पूज्यः स्यात् । पृथिवीपतिरपि कुशीलस्तदा बुधजनस्यचतुरलोकस्य परिहरणीयः, "बहुजणस्से" ति पाठे बहुलोकस्येति गाथार्थः ॥ ६१ ॥
तथा सर्वानिष्टं मरणमपि शुद्धशीलरत्नवतः प्रशस्यते । सर्वजीवेष्टं जीवितमपि विगलितशीलस्य निन्द्यते इति दर्शयतिकस्स न सलाहणिज्जं मरणं पि विसुद्धसीलरयणस्स । कस्स व न गरहणिज्जा, वियलियसीला जियंता वि ॥६२॥
व्याख्या – उक्तार्था ।। ६२ ।। ननु सुवहमेवैतत्ततो व्यर्थमित्थं तन्माहात्म्यकीर्त्तनमित्याशङ्कयाह — जे सयलपुहविभारं, वर्हति विसर्हति पहरणुप्पीलं । नणु सील भरुव्वहणे, ते विहु सीयंति कसरुव्व ॥ ६३ ॥ नन्विति पराक्षेपे, ये सकलपृथिव्याः भारं वहन्ति तां परिपालयन्ति, तथा प्रहरणोत्पीडां विषहन्ते, तेऽपि निश्चितं शीलभरोद्वहने कसराः - कल्होडका इव सीदन्ति, रावणाद्याचेह दृष्टान्ता वाच्या इति गाथार्थः ॥ ६३ ॥ अथ दृष्टान्तान् दर्शयन् शीलरक्षणोपदेशमाहरइरिद्धिबुद्धिगुणसुं- दरीण तह सीलरक्खणपयत्तं । सोऊण विम्हयकरं, मइलइ सीलवररयणं ? ॥६४॥
२ शीला
धिकारे शीलवतो रकस्यापि
देय पूज्यत्वं
परिहरणी
यत्वं च कुशीलस्य
नृपतेरपि
॥ ४९ ॥
•