SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥४६॥ १दानाधिकारे दारियादयोऽवस्था अदत्तदानस्य । * दारिदं दोहग्गं, दासत्तं दीणया सरोगत्तं । परपरिभवसहणं चिय, अदिन्नदाणेणऽवत्थाओ ॥ ५५ ॥ व्याख्या-अदत्तन दानेन, इति अवस्थाः स्युरिति वाक्यशेषः । कास्ताः ?, दारिद्रयं दौर्भाग्यं दासत्वं दीनता सरोगत्वं परपरिभवसहनमिति गाथार्थः ॥ ५५ ॥ तथा ववसायफलं विहवो, विहवस्स फलं सुपत्तविणिओगो। तयभावे ववसाओ, विहवो चिय दुग्गइनिमित्तं ॥५६॥ 3 व्याख्या-तावद्वयवसायस्य फलं-साध्यं विभवः । विभवस्य फलं सुपात्रविनियोगः । तदभावे-विभवस्य सुपात्रविनियोगाभावे | [व्यवसायो विभवोऽपि च दुर्गतिनिमित्तमेवेति गाथार्थः ।। ५६ ॥ अपरश्च| पायं अदिन्नपुटवं, दाणं सुरतिरियनारयभवेसु । मणुयत्ते वि न देजा, जइ तंतोतं पि नणु विहलं ॥५७॥ व्या०-प्रायोऽदत्तपूर्व दानं, केषु ? इत्याह-सुरतियङ्नारकभवेषु, देवैर्दीयमानस्याहृतादिदोषयुक्तस्य साधूनामकल्पनीयत्वात् , तिरश्चां तु तथाविधबुद्धयादिसामय्यभावात् , नारकाणां च साध्वादिदर्शनस्यैवाभावादिति भावः । प्रायो ग्रहणं तु देवानामत्रैव वक्ष्यमाणयुक्त्या, तिरश्चां च वैतरणीवानरादीनामिव केषाञ्चित्क्वचित्कदाचित कियतोऽपि दानस्य सम्भवात् । ततः सम्पूर्णा दानसामग्री मनुजत्व एव, यदि चातिदुर्लभे मनुजत्वेऽपि प्राप्ते कार्पण्यादिभावमालम्ब्य कश्चित्तदानं न दद्यात्तदा तदपि-मनुजत्वमपि विफलमेव गतमिति गाथार्थः। तथा| उन्नयविहवो वि कुलु-ग्गओ वि समलंकिओ विरूवी वि। पुरिसोन सोहइच्चिय, दाणेण विणा गयंदुव्व ॥५८॥ व्याख्या-उन्नतविभवोऽपि सुकुलीनोऽपि अलङ्कृतोऽप्यलङ्कारादिभिः रूपवानपि पुरुषो दानेन विना न शोभत एव, यथा 18॥४६॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy