________________
पुष्पमाला लघुवतिः
चैतदस्ति, अतस्तपोनियमादिगुणोत्सर्पणायैवायमुपदेशो, न गृद्धयेति भाव इति गाथार्थः ॥ ४३ ॥ तस्माद्यदिह पर्यवसितं तदाह- १ दानातम्हा विहिणा सम्मं, नाणीणमुवग्गहं कुणंतेणं । भवजलहिजाणवत्तं, पवत्तियं होइ तित्थंपि ॥ ४४ ॥ धिकारे.
तीर्थप्रवर्तः व्याख्या-यस्मादनन्तरोक्तन्यायेनाहाराद्यभावे तीर्थमुच्छिद्यते, तस्मात्सम्यग्विधिना ज्ञानिनामाहारादिभिरुपग्रहं कुर्वता प्राणिना
माहारादिभिरुपग्रह कुवता प्राणना कत्वं ज्ञानिन भवजलधियानपात्रं तीर्थमपि सामर्थ्यात्प्रवर्तितं भवतीति गाथार्थः ॥ ४४ ॥
उपष्टम्भतदेवमाहारादिना दानप्रवृत्तिं व्यवस्थाप्य तद्दानविध्यादि प्रतिपादनार्थ द्वारगाथामाह
कस्य ।। है कह दायगेण एयं, दायव्वं ? केसु वा वि पत्तेसु ? । दाणस्स दायगाणं, अदायगाणं च गुणदोसा ॥४५॥ | । व्याख्या-कथं दायकेनैतदातव्यमिति वाच्यम् , तथा केषु पात्रेषु तद्दातव्यमित्यपि भणनीयम् , तथा दानस्य दायकानां ये गुणाः || स्युरदायकानां च ये दोषास्सम्भवन्ति ते च वक्तव्या इति गाथार्थः ॥ ४५ ॥ तत्राद्यद्वारमधिकृत्याह___ आसंसाए विरहिओ, सद्धारोमंचकंचुइजंतो। कम्मक्खयहेउं चिय, दिज्जा दाणं सुपत्तेसु ॥ ४६॥ |
व्याख्या-आशंसया इह परभवगतऋद्धयादिप्रार्थनरूपया विरहितः, श्रद्धया आहारादिदानोत्साहलक्षणया, रोमाञ्च एव कञ्चुकः, स जातोऽस्य स रोमाञ्चकञ्चुकितः । कर्मक्षयहेतोरेव दद्यात् दानं दायक इत्येकं द्वारं । केषु तद्दातव्यमिति द्वितीयमाहशोभनपात्रेष्विति गाथार्थः ॥ ४६॥ तान्येव सुपात्राण्याह
आरंभनियत्ताणं, अकिणताणं अकारविंताणं । धम्मट्टा दायव्वं, गिहीहिं धम्मे कयमणाणं ॥ ४७ ॥
का॥३९॥