________________
35
१ दानाधिकारे अकारख. न्धुतादि ज्ञानगुण
| ख्यापर्क
वताढथे गतः, उत्पलेन त्वं भूमौ क्षिप्तः, प्रासादः स्वविद्ययाऽदृश्यी कृतः कन्यापञ्चकं चापहृतं, अहं च सम्प्रत्येव तं हत्वा कन्यापञ्चक पुष्पमाला
लात्वाऽब्रायातः, इत्याकर्ण्य कुपितः कुमारः कथश्चित्सुधर्मनृपोपरोधेन सुन्दरीकन्यां परिणीय वैताढथे विमलद्वारपुरे सिंहनादकृतोत्सवोलघुवृत्तिः
&ागात् । तत्र सिंहनाददत्ता बहुविद्या असाधयत् । ततो विद्याबलेन महतीं प्रौढीमगात् । ततोऽमिततेजा भुवनकान्तां तां कुमाराय समर्म्य
खपुत्रयोरपराधमक्षमयत् , स्वभागिनेयीं प्रथमपत्नी कमलमाला चानीय ददौ । ततः कुमारः सर्वाः कन्याः सम्मील्य विद्याधरपरिवृतः
स्वं पुरं महामहोत्सवेनागात् , ततः कुमारः पञ्चविधसौख्यान्यनुभवति । अन्यदा तत्र पुरोधाने भुवनचन्द्रकेवली समवसृतः, तं च राजा ६ सपरिकरः प्रणम्य देशनान्तरे इदमपृच्छत् , यथा-भगवन् ! सागरचन्द्रकुमारः केनापहृतः ?, श्रीकेवली प्राह-महाविदेहे द्वौ भ्रातरौ
वणिपुत्रौ, तत्र ज्येष्ठस्य भार्याऽतिस्नेहवती भतरि, अन्यदा ज्येष्ठे ग्रामान्तरं गते लघीयसा हास्येन भ्रातृजाया प्रोक्ता, यथा-भ्राता | पथि चौरौापादितः, तत् श्रुत्वा [सा] मृता, लघोः पश्चात्तापोऽभवत्, कालेन ज्येष्ठः समायातः, ज्ञाततत्स्वरूपो लघीयसा क्षामितोऽपि | न क्षमते, सक्रोधस्तापसो भूत्वाऽसुरेषूत्पन्नः । लघुः श्रीजिनधर्म श्रुत्वा प्रव्रजितः । पूर्ववैरं स्मृत्वा तेनासुरेण शिलां शिरसि मुक्त्वा मारितः प्राणतकल्पे गतः । असुरः संसारं भ्रान्त्वा पुनरसुरो जातः । द्वितीयः प्राणताच्च्युत्वा तव पुत्रस्सागरचन्द्रस्तेनासुरेणापहृतः पूर्ववैरात् , पूनरिमेकमुपसर्ग करिष्यति, ततस्सागरचन्द्राद्बोधमवाप्स्यति । इति पूर्वभवस्वरूपं श्रुत्वा सञ्जातजातिस्मृतिर्मन्त्रिभिरनेकधा वार्यमाणोऽपि पुत्र राज्य संस्थाप्य पितृभ्यां युतः कलत्रमन्त्रिसामन्तादिपरिवृतः प्रबजितः। ततो गाथामात्रमपि ज्ञानं ममाश्वासकं जातं, तन्नून बहुलस्यास्य महात्म्यपर्यन्तो नास्तीति विचिन्त्य विशेषतः पठन् चतुर्दशपूर्वी जातः। ततः पालितदीर्घव्रतपर्यायः, प्रान्ते पादपोपगमनस्तेनैवासुरेण वैक्रियवज्रतुण्डपक्षिसिंहगजादिरूपैरुपसर्गितोऽप्यक्षुभितचित्तः, पुनः शान्तिभूतेन तेनैवासुरेण प्रशंसितः प्राप्तकेवलज्ञानो मोक्षमगात्
सागरचन्द्रो दाहरणम् ।
-AGAR