________________
पुष्पमाला लघुवृत्तिः
॥ ३५ ॥
1
ज्ञानगुण
ख्यापकं सागरचन्द्रो
न्द्रनृपोऽमरकान्ता प्रिया, तयोर्भुवनकान्ता प्रियपुत्री परिणत जिनवचना तव गुणान् श्रुत्वा त्वत्पाणिग्रहे प्रतिज्ञामकार्षीत् । शैलपुरेशसुदर्शननृपपुत्रेण समरविजयेन त्वत्प्रतिपक्षेण मार्ग्यमाणाऽपि न लब्धा, ततः स्वयं चतुरङ्गसैन्येन मण्डलसीम्नि स्थित्वोद्याने क्रीडन्ती सा निपुणैरपहृता विलपन्ती, अहं तु तस्या धात्री स्नेहेनायाता, अत्र च त्वं दृष्टः प्रत्यभिज्ञातो योधितश्च तस्मान्मोचयित्वा तां परिणीयानुगृहाणेति । ततस्समरविजयस्तामानीय कुमाराय ददौ । स च संक्षेपेण तां परिणीतवान् समरं च सम्भाष्य विसृष्टवान् । समरविजयाद्गृहीते रथे तया सहारूढस्तस्याः पुरं प्रति व्रजन् क्वचिद्रण ेणुवीणं दूरतो गीतमश्रौषीत् । ततः सरथां प्रियां तत्र मुक्त्वाऽग्रतो गच्छन् वननिकुजे सप्तभूमिकं प्रासादमद्राक्षीत् । तत्रारूढो गीतादिपरं सौभाग्यसारं कन्यापञ्चकं दृष्ट्वा विस्मितः । ताभिश्वाभ्युत्थानासनादिनोपचरितस्तत्स्वरूपमप्राक्षीत्, ताभिश्रोक्तं वैताढ्ये विद्याधरचक्रवतीं सिंहनादः, तस्य कनक श्री चम्पक श्री रम्मा-विमला ताराख्याः पञ्च हे दाहरणम् । पुग्यो वयं पित्रा पृष्टेन नैमित्तिकेनास्माकं त्वं वरः प्रोक्तोऽस्यामटव्यां तव प्राप्तिश्च । ततोऽत्र प्रासादं कारयित्वा पित्रा वयमत्र मुक्ताः । ततोऽस्मद्भाग्येन त्वमत्रायातः, कुरु शीघ्रमस्मत्पाणिग्रहणं, इत्याकर्ण्य कुमारः सविस्मयो गाथार्थ स्मृत्वा तासां पाणिग्रहणमकरोत् तावता न प्रासादो न ताः कन्याः, किन्तु स्त्रं भूमौ पश्यति, रथे गतश्च तमपि प्रियाशून्यं पश्यति । ततो विषण्णो गाथार्थ भावयन् यावदग्रतोऽटव्यां याति तावच्छ्रीजिनप्रासादं रत्नमयप्रतिमामण्डितं दृष्ट्वा वाप्यां कृतस्नानः कमलैः पारमेश्वरीं पूजां कुर्वन् प्रत्यासन्नसुमङ्गलापुरीस्वामिना सुधर्मनृपेण पितुर्मित्रेण पूजार्थं तत्रायातेनोपलक्षितः, पित्रा सहायाता सुन्दरी कन्या नैमितिकोक्तं सागरचन्द्रं वरं दृष्ट्वा प्रमुदिता । अत्रान्तरे सिंहनादश्चकी पुत्रीपञ्चकं लात्वा तत्र प्रासादे समायातः, कुमारेण पूजां कृत्वा पृष्टः प्राह - कुमार ! जलधितटेऽमि - ततेजा विद्याधरो यः पूर्वं त्वया दृष्टः कमलमालामातुलः, तस्य कमलोत्पलौ द्वौ पुत्रौ, तत्र कमलेन भुवनकान्ता रथस्था अपहृता, सच
"
।। ३५ ।।
१ दानाधिकारे
अकारब
न्धुतादि