________________
पुष्पमाला लघुवृत्तिः
॥ ३२ ॥
39
" जं अन्नाणी कम्मं, खवेह बहुयाहिं वासकोडीहिं । तं नागी तिहिं गुत्तो, खवेद ऊसासमित्तेणं ॥ १ ॥ इति भावः, इति गाथार्थः ॥ ३५ ॥ अथ ज्ञानस्यैव सूक्ष्मादिपदार्थज्ञातृत्वलक्षणं गुणमुत्कीर्त्तयन्नुपदेशमाह - नाणेण सव्वभावा नजंति सुहुमबायरा लोए । तम्हा नाणं कुसलेण, सिक्खियव्वं पयत्तेणं ॥ ३६॥ व्याख्या - अस्मिल्लोके सर्वे भावाः सूक्ष्मा बादरा वा ज्ञानेनैव ज्ञायन्ते, नान्यथा । तस्मात्कुशलेन प्रयत्नेन ज्ञानमेव शिक्षणीयमिति गाथार्थः || ३६ || अथ ज्ञानस्यैवाकारणबन्धुतादिगुणानाह -
नामकारणबंधू, नाणं मोहंधयारदिणबंधू । नाणं संसारसमुद्द-तारणे बंधुरं जाणं ॥ ३७ ॥ इह सर्वेऽपि "कारणाद्बन्धुतामेति, द्वेष्यो भवति कारणात् । अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः ॥१॥" इदं तु ज्ञानं अकारणेनैव-कारणापेक्षामन्तरेणैव अर्थावाप्त्यनर्थपरिहारयोर्महासाहाय्यदानतः सर्वजीवानां बन्धुरिव बन्धुः, तथा ज्ञानं मोहान्धकारध्वंसे साध्ये दिनबन्धुः सूर्य इत्यर्थः । तथा ज्ञानं संसारसमुद्रतारणे बन्धुरं- प्रधानं यानं - यानपात्रमिति गाथार्थः ॥ ३७ ॥
अथ ऐहिकामुष्मिक गुणानामपि ज्ञानमेव साधकमिति सदृष्टान्तं दिदर्शयिपुराह
वसणसय सल्लियाणं, नाणं आसासयं सुमित्तुव्व । सागरचंदस्स व होइ, कारणं सिवसुहाणं च ॥ ३८ ॥ व्याख्या– व्यसनशतैः शल्ल्यितानां - अन्तः पीडितानां ज्ञानमेवाश्वासकं - तन्निस्तरणोपायप्रदर्शकत्वेन स्वास्थ्यजनकं । किमिव ?, सुमित्रमिवेत्यनेन ज्ञानस्यैहिको गुणो दर्शितः, पारत्रिकमप्याह - भवति कारणं मोक्षसुखानां चेति । कस्येव ?, सागरचन्द्रस्य यथा, कः
I
१ दाना
धिकारे
अकारण
बन्धुतादयो
ज्ञानस्य
गुणाः
॥ ३२ ॥