SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः GORA-N १दाना|धिकारे | ज्ञानस्य सर्वोत्कृष्टत्वं दर्पयति-हर्ष नयति दृष्टं सत्सर्वलोकानिति निरुक्त्या सुन्दरं, प्रकृष्टं सुन्दर-सुन्दरतरं । 'लष्टतर मित्यनेन सामान्यशोभनतरं विवक्षितं, सुन्दरतरं तु यथोक्तस्वरूपमित्यतोऽस्य भेदः। ततः सुन्दरतरमपि ज्ञानादन्यत्कि?, न किञ्चिदित्यर्थः । कथमिदं ज्ञायते ? इत्याहयतश्चन्द्रमिव बहुश्रुतमुख सर्वे लोका अन्तःप्रसपत्प्रचुरबहुमाननिभृतचेतसः प्रस्फारित दृशः प्रलोकयन्ति, ततो लोके पुरुषत्वादिधर्मसाम्येऽपि शेषपदार्थभ्यः खाधारे प्रकर्षवद्गौरवाधानकारणत्वाज्ज्ञानमेव लष्टतरादिस्वरूपं, नान्यदिति । अथवेत्थं व्याख्यो-चन्द्रमिव सर्वलोका बहुश्रुतमुख प्रलोकयन्ति, किमध्यवस्यन्तः ? इत्याह-किमेतस्मादहुश्रुतमुखाल्लष्टतरमाश्चर्यतरं वा सुन्दरतरं वा ? इत्येवं योजना | कार्येति गाथार्थः ॥ ३४ ॥ अथ प्रकृष्टकर्मनिर्जराकारणं ज्ञानमेव, नान्यदिति दर्शयन्नाहछट्टऽहमदसमदुवा-लसेहिं अबहुस्सुअस्स जा सोही । एत्तो उ अणेगगुणा, सोही जिमियस्स नाणिस्स ॥३५॥ ___ व्याख्या-'षष्ठ'मित्युपवासद्वयस्य सामयिकी संज्ञा, 'अष्टम'मुवासत्रयस्य, 'दशम'मुपवासचतुष्टयस्य, 'द्वादशम'मुपवासपञ्चकस्य । | इदं च पक्षमासक्षपणादेरुपलक्षणं । ततश्चतैः षष्ठाष्टमादिभिः क्रियमाणैरबहुश्रुतस्य-अगीतार्थस्य या शुद्धिः-कर्ममलापगमरूपा सम्पद्यते, | एतस्याः शुद्धस्सकाशात्तु अनेक ण्यते इत्यनेकगुणा शुद्धिर्भवति, अतिबहीत्यर्थः । कस्य ? इत्याह-'ज्ञानिनों गीतार्थस्य । कथम्भूतस्य ?, जिमितस्य-उद्गमादिदोषविशुद्धाहारभोजिन इत्यर्थः । अगीतार्थो हि द्रव्यादिस्वरूपमविदन् स्वाग्रहग्रस्तस्तत्किमपि विकल्पयति वक्ति | विदधाति(वा), येन बुभुक्षादिकष्टं सहमानोऽत्रैवानर्थलक्षाण्याप्नोति मृतश्च भ्रमत्यनन्तं संसारं, शुद्धेरभावात् । गीतार्थस्तु यथावद्रव्यादिखरूपं विदंस्तत्किश्चिदाचरति येनात्रैव सर्वजनप्रि(पूजनी)यो भवति, परत्रापि च न स्पृश्यतेऽपायलेशेनापि प्राप्नोति च सर्व सुखसम्पदः, तथाविधशुद्धिसद्भावात् । यदुक्तं MORE AMAU ॥३१॥ बर
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy