________________
SHRS
व्याख्या-यद्यपि दिवसेन समस्तेनाऽपि पदं धरति-अवतिष्ठते, पक्षण वा श्लोकार्द्धमवतिष्ठते, तथाप्युद्योगं मा मुञ्च, यदीच्छसि पुष्पमाला शिक्षितुं ज्ञानं । इयमत्र भावना-यद्यपि दिनादिना पदमात्रमेवागच्छति तथापि बहुना कालेन तद्बहु सम्पद्यते कर्मनिर्जरा च सञ्जायते,
१ दानालघुवृत्तिः
अतः श्रुतज्ञानमिच्छता सर्वदेवाध्येतव्यम् , यतः-" योजनानां सहस्रं तु, शनैर्याति पिपीलिका । अगच्छन्वैनतेयोऽपि, ॥२९॥
दधिकारे
सर्वदा शि| पदमेकं न गच्छति ॥ १॥" इति गाथार्थः ॥ २९ ॥ अत्रार्थे सूत्रकार एव दृष्टान्तमाह
क्षणीयत्वं |ज पिच्छह अच्छेरं, तह सीयलमउयएण वि कमेण । उदएण वि गिरी भिन्नो, थोवं थोवं वहंतेण ॥३०॥ ज्ञानस्य
व्याख्या-यत्-यस्मात्प्रेक्षध्वमाश्चर्य, यदुत-'तथा' तेन लोकप्रसिद्धेन प्रकारेण शीतलमृदुनाऽपि स्तोकं स्तोकं वहतापि, एवमत्राप्यपि शब्दः सम्बन्धनीयः, उदकेन-नद्यादिसम्बन्धिजलेन क्रमेण गिरिभिन्नः, सर्वजनप्रसिद्धं चैतत् । एवमत्रापि नित्यं स्तोकं स्तोकं पठन्तोऽपि कोलेन श्रुतरहस्यगिरिभेदिनो भवन्तीत्युपनय इति गाथार्थः ॥ ३०॥
उक्तं ग्रहणविधिद्वारं, साम्प्रतं 'गुणाश्च के ? तस्येति चतुर्थद्वारमभिधित्सुराहहै। सूई जहा ससुत्ता, न नस्सइ कयवरम्मि पडिया वि। तह जीवो वि ससुत्तो, न नस्सइ गओ वि संसारे॥३१॥
व्याख्या-यथा मूचिः ससूत्रा-छिद्रप्रोतसूत्रनिर्मितदवरका कचवरे पतितापि न नश्यति । दवरकदर्शनानुसारेण पुनरपि गृह्यत इति भावः। तथा जीवोऽपि ससूत्रः-पठितसिद्धान्तः अशुभकर्मोदयवशात्पतितः सन्-संसारे गतोपि न नश्यति । पूर्वाधीतस्यैव श्रुतस्य महात्म्यात्पुनरप्याक्षिप्तबोधिलाभादिभावः स्तोककालेनैव सिध्यत्येवेति भावः, इति गाथार्थः ॥ ३१ ॥ अत्रैव व्यतिरेकमाह
-C-EACOCONUCLECRUC06430
-ॐ