________________
पुष्पमाला लघुवृत्तिः
।। २६ ।।
तदेतत्संवदितं यदभिहितं केनापि -
29
"निचं सन्निहियाणं, विभोगद्वाणं न कमलिणी जाया। सालूराणं दूरा-गया वि भुंजंति तं भमरा ॥ १ ॥ इत्यादि चिन्तयन् गतः कुमारः स्वस्थानं । इतश्च बहुधा विलोकिताऽपि न क्वचित्प्राप्ता वार्त्ताऽपि कन्यायाः, ततस्तद्विरहेण व्याकुलीभूते विलपति नृपतौ मन्त्रिपुत्रेण श्रीनन्दनेनोक्तं- 'हे देव ! अत्र पुरे वैदेशिकोऽस्त्येकः कलावान्, स निर्द्रव्योऽपि परमैश्वर्यवान् दाता भोक्ता च, इति विद्यासिद्धः सम्भाव्यते, इति स पृच्छयते । ततः सम्भावनयाऽपीषदुच्छ्वसितेन राज्ञा मतितिलकप्रमुखप्रधानपुरुषैः सानु - नयमानायितस्तत्र कुमारः, सबहुमानं दृष्टः पृष्टश्वोचितं कुशलादि । ततो राज्ञाऽदिष्टेन श्रीनन्दनेन बन्धुमतीस्वरूपं पृष्टः कुमारश्चिन्तितवान्" व्यसनार्त्ताभ्यर्थितार्थे, जीवितं चेदपि व्रजेत् । यातु यातु फले लाते, शालेः शोषो न दुःखकृत् ॥ १ ॥ 'कस्य न स्युः प्रियाः प्राणाः १, लक्ष्मीः कस्य न वल्लभा ? । सतामवसरे प्राप्ते, द्वयमेतत्तृणायते ॥ २॥" इति विचिन्त्य 'देव ! महत्साध्येऽप्यस्मिन्कार्ये यदि देवस्य मयि सम्भावना ? तर्हि दशदिवसमध्ये चेत्कन्यां नानयामि तर्हि ज्वलज्ज्लनं प्रविशामी 'ति प्रतिज्ञां चकार कुमारः, ततो राज्ञा सम्मान्य विसृष्टः । स्वस्थानं प्राप्तं विधिस्मृता विद्या तं प्राह-अत्रैव भरते वैताढ्यगिरौ पञ्चविंशतियोजनोच्चैः रजतमये गन्धसमृद्धनगरे मणिकिरीटो विद्याधरः, तेन नन्दीश्वरयात्रां कृत्वा वलमानेन रूपमोहितेन बन्धुमती हृता, स सम्प्रति गङ्गातटे धवलकूटगिरौ तस्याः पाणिग्रहणसामग्रीं कुर्वन्नस्ति, एहि तत्र यामि' इति । एवं भवत्विति प्रतिपन्ने विमाने निवेश्य विद्यादेवतया कुमारस्तत्र नीतः । तत्र परिणयनसामग्रीं कुर्वाणो हक्कितः कुमारेण मणिकिरीट:- 'रे ! किमारब्धं ? तस्करनरोचितं' । ततः प्रवृत्तं द्वयोर्दिव्यास्त्रैर्युद्धं ततस्सर्वथाऽजेयपराक्रमं कुमारं ज्ञात्वा त्यक्ताहङ्कारः प्रणतः खेचरः ततो द्वयोमैत्री, विद्या
66
१ दाना
धिकारे
श्रुतदानस्थ योग्यायो ग्यत्वे पुर
न्दरराजकु
मारविप्र
| निदर्शने ।
॥ २६ ॥