________________
पुष्पमाला लघुवत्तिः ॥२५॥
प्रकाशितं च-"नाभिलाषः कुलस्त्रीणां, युक्तोऽपि पुरुषान्तरे । पुत्रे कामानुरागस्तु, पशुस्त्रीणां पुनर्यदि ॥२॥" | "अन्याऽन्ययुवतिसङ्गम-रसिकेषु ध्वजपटानचलेषु । पुरुषेषु कोऽनुरागः, क्षणरक्तविरक्तचित्तेषु ॥३॥” तथा"अंधो पंगुव्व अजं-मोव्व जरविहुरिओ भुयंगुब्व । आलविङ पि न जुत्तो, परपुरिसो सुकुलनारीणं ॥४॥"
इति मद्वचसा तां तथा संस्थापय यथा न स्वप्नेऽपि चिन्तयतीदमिति । चेटी विसृष्टा, सा च कुमारोक्तं सविशेषं स्वस्वामिन्यै न्यवेदयत् । तथाप्यनिवृत्तमारविकारा साऽन्यान्यचेटीसञ्चारणान्न निवर्त्तते यावत्ततस्तत्परिणामस्यानिवार्यत्वं खस्य च तदकार्य विचार्य राज्ञस्त| स्वरूपमनिवेद्य देशान्तरं परिभ्रमन् कुमारोमार्गमिलिते कस्मिश्चिद्वि निर्गुणेऽपि वाचालतया मार्गश्रममपहरति बहुस्नेहं बबन्ध । पल्लीपथेषु च प्रत्यार्थितयोपस्थितान् पल्लिनाथान् प्रमथ्य क्वचिन्नन्दिपुरासन्नोद्याने विश्राम्यति, तावता सिद्धकूटशैलादागत्य भृतानन्दाभिधः सिद्धपुरुषः कुमारं प्राह-'भो महासत्त्व ! प्रतिदिनमुच्छीर्षके कनकसहस्रस्थापन-सङ्ग्रामाभङ्गुरत्व-त्रिकालविषयविज्ञानाद्यनेकफलविद्याया योग्यस्त्वमेव मे देवतयाऽभिहितः' इत्युक्त्वा तेन दत्तां तां महाविद्यां सपूर्वोत्तरसेवाविधिं लब्धवान् कुमारः अयोग्यस्यापि तस्य द्विजस्य | महाग्रहात्तां विद्यां तस्माददापयच्च । ततो गुरुक्तविधिना विद्यां सम्यक् साधयित्वा नन्दिपुरे चन्द्रकान्तागणिकागृहे विद्याप्रभावात्पूर्यमाणसर्वसमीहितः स्थितः । विद्यां गुरुं चोपहसन् विप्रस्तु क्वापि गतः । कुमारस्य तु तत्र मतितिलकामात्यपुत्रेण श्रीनन्दनेन सह मैत्री जाता । अन्यदा क्वचित्प्रासादे कौतुकोपविष्टः स तत्पुरप्रभोः प्रासादे सकलपुरक्षोभकरमतुच्छमुच्छलितं कलकलमाकर्ण्य तज्ज्ञानाय प्रेषितः कोऽपि क्षणादागत्य कुमारमाह, यथा-'एतत्पुरप्रभोः सूर(सेन)नृपतेः प्राणेभ्योऽपि प्रिया रतेरप्यधिकरूपा चतुःपष्टिकलाकौशलवती बन्धुमती नाम तनया केनाऽप्यपहृता, तेनायं तुमुल' इति । ततश्चिन्तयति कुमारः-अहो !! अस्माकमिह तिष्ठतामपि सा केनाप्यपहृता,
१ दानाधिकारे श्रुतदानस योग्यायोग्यत्वे पुरन्दरराजकुमारविप्रनिदर्शने।
NAGANAGAR