SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृतिः ॥ २१ ॥ %%%%%%% ৬6৮৬ दाता भवति । इह च साधुग्रहणेनाचार्यादेरपि ग्रहण, साधुत्वस्य सर्वत्रानुगमादिति गाथार्थः । शुद्धप्ररूपकस्यैव महात्म्यं प्रकटयन्नाह - ओसन्नोऽवि विहारे, कम्मं सोहेइ सुलहबोही य । चरणकरणं विसुद्धं, उबवूहंत । परूती ॥ २१ ॥ व्याख्या– विहारे-यथोक्तसंयममार्ग प्रवर्त्तनरूपे अवसन्नोऽपि - शिथिलीभूतोऽपि अशुभं कर्म शोधयति - निर्जरयति, जन्मान्तरे सुलभबोधिश्च - सुखप्राप्यजिनधर्मश्च स्यात् । किं कुर्वन् ? इत्याह- चरणकरणं - महात्रतपिण्डविशुद्ध्यादिगुणसन्दोहरूपं, विशुद्धं - अर्हद्भियथा गदितं, उपबृंहयन्- प्रशंसन्, तथा प्ररूपयंश्चेति । एतेन च यथावदुपबृंहितेन आत्मनिन्दापरगुणोत्कीर्तनरतो 'वंदह न य वंदावेद्द" इत्यादिलक्षणयुक्तः संविग्रपाक्षिक उक्तः, अस्य च कर्मशुद्धिस्सुलभबोधित्वं चोपलक्षणं, यावदैहिकामुष्मिको जनानुरागादिको गुणग्रामोऽन्योऽपि जायते, विपर्यये तु विपर्ययसद्भावात् । तथा चात्र पिण्डनिर्युक्त्युदाहृतमुदाहरणं सङ्घियोच्यतेमहर्षिमेकमायान्तं दृष्ट्वा काचिद् गृहे निजे । अन्नाद्यादा (नमादा) य दानीयं निर्गताऽगान्मुनिस्ततः ॥ १ ॥ द्वारे गृहे तस्मिन्न शुध्ध्यत्येषणेत्यतः । तदा सविस्मयं श्राद्धी, किञ्चिद् ध्यायति यावता ॥ २ ॥ तावदन्यो मुनिस्तत्र समागात्संयमालसः । अशनादि तथा तस्य तद्दत्त्वेति स जल्पितः ॥ ३ ॥ पूर्वागतो मुनिः किं न जग्राहैतदुवाच सः । नीचद्वारे भवद्गेहे, भिक्षा साधोर्न कल्पते ॥ ४ ॥ अधर्मोऽहं तु तेनेमां, गृह्णामीत्युदितेति सा । स्मरेत् खनिन्दकोऽस्त्यन्य-गुणग्राही गुणी ह्यतः ॥ ५॥ अतो दत्तं पुनस्तस्या-शनादिविपुलं तथा । तावदन्योऽपि तत्रैकः समागात्संयमालसः ॥ ६ ॥ तदा तस्यापि सा सर्व तं वृत्तान्तं तथाऽवदत् । स प्राह मायया तेन, भिक्षा नोपाददे तदा ॥ ७ ॥ १ दाना धिकारे श्रुतदातृषु शुद्धप्ररूपकोदाहरणं ॥ २१ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy