________________
पुष्पमाला लघुवृत्तिः ॥२०॥
१दानाधिकारे श्रुतज्ञानदातुर्गुणाः
ॐॐॐॐॐॐCRECR5%
व्याख्या-यः संविग्न-उद्यतविहारी, स च स्वाचारावष्टम्भेनाहद्वचनं यथावत्प्ररूपयत्यादेयवाक् च स्यादत इदं विशेषणं, यदुक्तं| " गुणसुट्टियस्स वयण, महुघयसित्तोच पायवो भासह । गुणहीणस्स न रेहइ, नेह विट्ठणो जह पईवो ॥१॥"
संविग्नश्च गीतार्थस्य गुरोः शिक्षका(शिष्या)दिरपि स्यादित्याह-गीतार्थ:-अधीतच्छेदग्रन्थादिसूत्रार्थः, अयं चोत्सर्गापवादौ वेत्तीत्ये| तद्विशेषणं । अगीतार्थो हि ज्ञानदानेऽनधिकार्येव, यतः"सावजऽणवजाणं, वयणाणं जो न जाणइ विसेसं । वोत्तुं पि तस्स न खमं, किमंग पुण देसणं काउं? ॥१॥"
गीतार्थोऽपि रागद्वेषाभिनिवेशतो गोष्ठामाहिलादिवदहद्वचनमन्यथाऽपि प्ररूपयेदित्याह-मध्यस्थो रागद्वेषाभिनिवेशवर्जितः । पुनः कथम्भूतः? इत्याह-'देस" इत्यादि, देशः-पार्श्वस्थादिभावितक्षेत्ररूपः, काल:-सुभिक्षदुर्भिक्षादिः, भावः-परचित्ताभिप्रायादिलक्षणस्तान् जानातीति देशकालभावज्ञः, यथोक्तदेशाद्यभिज्ञो हि तदनुसारेणैव शुद्धोञ्छदेशनादौ यतते इतीत्थं विशेषणं । ननु गीतार्थत्वेन देशाद्यभिज्ञता लब्धैव, किं पृथग्रहणेन ? इति चेदुच्यते-गीतार्थो हि कश्चिच्छास्त्रनिर्णीतं देशादिस्वरूपं विदन्नपि कर्मक्षयोपशमवैचित्र्यात्तथाविधदक्षता-स्मृतिपाटवाद्यभावाद् व्यवहारकाले पराभिप्रायादेरनुचितभाषणादौ प्रवर्तेत, इति व्यवहारकालेऽपि तदौचित्यप्रवृत्तिवैशिष्टयख्यापनार्थ पृथगेतद्विशेषणोपादानं, अत एव षट्त्रिंशदाचार्यगुणेषु सूत्रार्थोभयज्ञतायाः सकाशाद्देशकालभावज्ञतादिगुणः पृथगुपात्त इति । पुनः कथम्भृतः ? इत्याह-शुद्धं-यथावस्थितं जिनवचनं प्ररूपयतीति शुद्धप्ररूपकः । ननु यथोक्तगुणविशिष्टः शुद्धप्ररूपक एव भवि| ष्यति, किमनेन ?, सत्यं, (किन्तु) ज्ञानदातुः कदाचिदशेषगुणाभावेशी तीर्थप्रवृत्तिहेतोर्यथावज्जिनवचनप्ररूपकत्वस्य गुणस्य प्राधान्यादवश्यान्वेषणीयत्वख्यापनार्थ पृथगुपादानं, अन्यथा विपर्ययसम्भवात् । यत्तदोर्नित्याभिसम्बन्धात्स एवंविधगुणविशिष्टस्साधुर्ज्ञानस्य