SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥ १८ ॥ किं नाणं ? को दांया ?, को गहणंविही ? गुणों य के तस्स ? । दारक्कमेण इमिणा, नाणस्स परूवणं कुच्छ ॥१६॥ व्याख्या - प्रथमं किं ज्ञानं ? इति वाच्यं, ततस्तस्यैव ज्ञानस्य को दाता समुचितः ? इति भणनीयं, ततस्तस्यैव को ग्रहणविधिः ? इति ख्यापनीयं ततस्तस्यैव को गुणः ? इति प्ररूपणीयं द्वाराणां क्रमेणानेनोक्तस्वरूपेण ज्ञानस्य प्ररूपणां स्वरूपनिर्णयात्मिकां वक्ष्ये इति गाथार्थः ।। १६ ।। तत्र प्रथमद्वारमाह आभिणिवोहियनाणं, सुअनाणं चेत्र ओहिनाणं च । तह मणपज्जवनाणं, केवलनाणं च पंचमयं ॥ १७ ॥ व्याख्या - अभीत्याभिमुख्ये, नि इति नैयत्ये, ततश्चाभिमुखोऽर्थग्रहणयोग्यनियत देशावस्थानापेक्षी नियत इन्द्रियाण्याश्रित्य स्वस्वग्रहणपरिणतो बोधोऽभिनिबोधः, स एवाभिनिवोधिकं तच्च तज्ज्ञानं चाभिनिबोधिकज्ञानं, इन्द्रियपञ्चक-मनोनिमित्तो वस्त्ववबोध इत्यर्थः । श्रवणं श्रुतं - अभिलापप्लावितार्थोपलब्धिविशेषः, तच्च तज्ज्ञानं च श्रुतज्ञानं, इन्द्रियपञ्चक-मनोनिमित्त एवाभिलापारोपितो बोध एवेत्यर्थः । अवधि - मर्यादा, तेनावधिना रूपिद्रव्यग्रहणात्मकेन ज्ञानमवधिज्ञानं, इन्द्रिय-मनोनिरपेक्ष आत्मनः साक्षाद्रूपिवस्तुग्रहणात्मको बोध इति भावः । संज्ञिभिजावैः काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि वस्तुचिन्ताप्रवर्त्तकानि द्रव्याणि मनांसीत्युच्यन्ते तानि पर्येति- अवगच्छतीति मनःपर्यायमिति कर्मण्यण् [ ३-२-१पा०] । तच्च तज्ज्ञानं च मनःपर्यायज्ञानं, अर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्तिसंज्ञिजीवचिन्तितार्थप्रकटनपटुरिन्द्रिय- मनोनिरपेक्ष आत्मनः साक्षात्प्रवृत्तो बोध एवेति हृदयम् । केवलं - असाधारणं सम्पूर्णज्ञेयग्राहित्वात्सम्पूर्ण वा, तच्च तज्ज्ञानं च केवलज्ञानं रूप्यरूपिवस्तुग्राहकं पञ्चमज्ञानमिति गाथासंक्षेपार्थः । व्यास - स्त्वावश्यकादिभ्योऽवसेय इति । अत्र च 'च-एव-तथा, शब्दाः पादपूरणे ॥ १७ ॥ अथैतज्ज्ञानपञ्चके येनेहाधिकारस्तदाह १ दानाधिकारे ज्ञानद्वारस्य प्रतिद्वार चतुष्कम् ज्ञानपञ्चकं च ॥ ॥ १८ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy