SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः |१दाना|धिकारे ज्ञानदानं, तत्र ज्ञानाभयदानयोः सम्बन्धः। अथ ज्ञानदानद्वारं विवक्षुः सूत्रकारस्तस्य चोक्तद्वारेण सम्बन्धं रचयन्नाह&| इच्छंतो य अहिंसं, नाणं सिक्खिज सुगुरुमूलम्मि । सञ्चिय कोरइ सम्मं, जं तव्विसयाइविन्नाणं ॥१५॥ व्याख्या-इच्छत , कर्नुमिति शेषः, चकारोऽन्यत्र योज्यते, अहिंमां च प्राणिवधनिवृत्तिरूपां, आदित एव ज्ञानं शिक्षेत । क्व ? इत्याह-सुगुरुमले-वक्ष्यमाणसंविग्नत्वादिगुणयुक्तगुरुसमीपे । इह ज्ञानमिति सामान्योक्तावपि श्रुतज्ञानमेवाधि(क्रियते)क्षिप्यते, तस्यैव गुरुपरतन्त्रत्वात् , शेषज्ञानानां तु खस्खावरणक्षय-क्षयोपशमाभ्यां स्वत एव जायमानत्वात् “एत्थं पुण अहिगारो सुयनाणेणं]"इत्यादि वक्ष्यमाण [ अष्टादशमगाथा ] वचनत्वाच्च । कुतो ज्ञानमेव शिक्षणीयं ? इत्याह- "सच्चिय"त्ति । यत्-यस्मात्सव अहिंसा सम्यक्क्रियते । क्व सति ? इत्याह--"तविसय"त्ति । तस्या-अहिंसाया विषयादे-विषयभेदफलादेविज्ञाने सति, नान्यथा, तथाहि-हिंसायास्तावद्विविधो विषयो, जीवाजीवभेदात , स्थावादौ स्खलनादिसम्भवेजीवेऽपि संक्लेशविषयतायाः सम्भवात् , “तप्पज्जायविणासो, दुक्खुप्पाओ य संकिलेसो य" इति वचनात् । अतः प्राणिवधनिवृत्तिरूपाया अहिंसाया अपि स एव द्विविधो विषयः। तथा विवक्षितमनुष्यस्वादिपर्यायविनाशस्य दुःखोत्पादस्य सङ्क्लेशस्य च निवृत्तौ सत्यां चाहिंसायास्त्रिविधो भेदः । अस्याश्च फलादिकं स्वर्गापवर्गादि । एतच्च | सर्व ज्ञानेनवावगम्यते, अतोऽहिंसार्थिना ज्ञानमेव प्रथमं शिक्षणीयं । यदुक्तं सूत्रे-" पढमं नाणं तओ दया, [एवं चिट्ठइ सबसंजए । अन्नाणी किं काही?, किं वा नाहि य छेयपावगं ॥१॥” दश० ४-१०] इत्यादि । आह-यद्येवं तत्रि प्रथमं ज्ञानद्वारमेव किं नोक्तं ? | इत्यत्रोच्यते-महाव्रताणुव्रतरूपस्य धर्मस्थाहिंसामूलत्वाज्ज्ञानस्यापि च प्रथमं शिक्षणीयत्वेऽप्यहिंसाऽर्थमेव व्याप्रियमाणत्वात्तस्या एव प्राधान्यमाकलय्यात्र प्रथमं तवारमुपन्यस्तमिति गाथार्थः ॥१५॥ यदिह ज्ञानद्वारे वक्तव्यं तत्संग्राहिकां द्वारगाथामाह ॥१७॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy