SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृतिः 112 11 इति । तथा " किं तीए पढियाए, पयकोडीए पलालभूयाए । जइ इत्तियं न नायं, परस्स पीडा न कायव्या ॥ ८ ॥ दीर्घमायुः परं रूप-मारोग्यं श्लाघनीयता । अथा हिंसायाः फलं सर्व, किमन्यत्कामदैव सा ||९|| " तस्मान्नाभीतिदानाभ्यधिकोऽस्ति धर्म इति गाथार्थः । अथाहिंसायाः सर्वधर्माभ्यधिकत्वमेव हेतुगर्भैर्विशेषणैर्द्रढयति काकोडिजणणी, दुरंतदुरियारिवग्गनिवणी । संसारजलहितरणी, एक्कच्चिय होइ जीवदया ॥ ७ ॥ व्याख्या– कल्याणानि –मङ्गलानि तेषां कोटयस्तासां जननीव जननी, उत्पत्तिहेतुत्वात् । तथा दुरन्तानि - चिरभोग्यानि दुरितानि - पापानि तत्कार्याणि वा नानादुःखानि, तान्येवैकान्ताहितत्वेनारयः - शत्रवस्तेषां वर्गः समुदायस्तस्य निष्ठापनी - पर्यन्तकर्त्री । तथा संसार एव जलधिः - समुद्रः, स तीर्यतेऽनयेति तरणी - नौः, इत्थम्भूता एकैव भवति जीवदया, नान्यत्, तस्मात्सैव सर्वधर्माभ्यधिकेति गाथार्थः ॥ ७ ॥ कल्याणकोटिजनकत्वमेव प्रकटयन्नाह - बिलं रज्जं रोगेहिं, वज्जियं रूत्रमाउयं दीहं । अन्नंपि तं न सोक्खं, जं जीवदयाइ न हु सज्झं ॥ ८ ॥ व्याख्या - विपुलं विस्तीर्ण, राज्यं चक्रवर्त्त्यादिसम्बन्धि, तथा रोगैः कुष्टादिभिर्वर्जितं - रहितं रूपं - लक्षणोपपन्नसर्वशरीरावयवा - त्मकं, तथा दीर्घ - चिरकालसम्भवि त्रयस्त्रिंशत्सागरोपमादिकमायुः । किं सर्व जीवदयायाः साध्यमिदमेव ? इत्याह अन्यदपि सुखयतीति सुखं, सुखमेव सौख्यं - इन्द्रपदादि मोक्षादि वा तन्नास्ति यज्ञ्जीवदयाया नैव साध्यमिति गाथार्थः ॥ ८ ॥ ननु जीवदयातः किं कस्यचिद्राज्यप्राप्तिर्मोक्षप्राप्तिश्च जाता १, येन सर्वमिदं तत्साध्यमुच्यते ? इत्याहदेविंदचकवहि-तणाइ भुत्तूण सिवसुहमणंतं । पत्ता अनंतसत्ता, अभयं दाऊण जीवाणं ॥ ९ ॥ १ दानाधिकारे सर्वाभ्यधिक त्वमहिंसा यामाहा त्म्यश्चाभ यदानस्य ॥ ८ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy