________________
पुष्पमाला लघुवृत्तिः
|| 6 ||
सो य अहिंसामूलो, धम्मो जियरागदोसमोहेहिं । भणिओ जिणेहिं तम्हा, सविसेसं तीऍ जइव्वं ॥५॥
व्याख्या - स चानन्तरं कर्त्तव्यतयोपदिष्टः श्रीजिनधर्मः अहिंसामूलो- जीवदयामूलो जितरागद्वेषमोहै - भग्नरागद्वेषाज्ञानैर्जिनैस्तीर्थकृद्भिर्भणितः, यथा “धन्नाणं रक्खणठ्ठा, कीरंति वईओ जह तहेवेत्थ । पढमवयरक्खणट्टा, कीरंति वयाई सेसाई || १ ||" ततश्च किं कर्तव्यं ? इत्याह-तस्मात्सविशेषं तस्यामेवाहिंसायां यतितव्यमिति गाथार्थः।। ५ ।। अथाहिंसा तोऽन्यधर्मस्य गरीयस्त्वाशङ्कां निरस्यन्नाह — किं सुरगिरिणो गरुयं, जल निहिणो किं व होज गंभीरं । किं गयणाओ विसालं, को वा अहिंसासमो धम्मो ॥६॥
व्याख्या - इहायं किं शब्दोऽपलापे, ततोऽयमर्थः - किं सुरगिरेर्मेरोः सकाशाद् गुरुकं - बृहत्तरं वस्त्वस्ति ?, किं वा समुद्रादपि गम्भीरं ?, किं गगनाद्विशालं - विपुलं ?, को वा अहिंसया समो धर्मः समस्ति ?, नास्तीत्यर्थः अयम्भावः - अहिंसासमोऽप्यपरो धर्मो नास्ति, किं पुनर्गुरुरिति, तथा चाहुतीर्थान्तरीयाः - "हेमधेनुधरादीनां दातारः सुलभा भुवि । दुर्लभः पुरुषो लोके, यः प्राणिध्वभयप्रदः ॥ १ ॥ महतामपि दानानां कालेन क्षीयते फलं । भीताभयप्रदानस्य, क्षय एव न विद्यते ||२|| दत्तमिष्टं तपस्तप्तं, तीर्थसेवा तथा श्रुतं । सर्वाण्यभयदानस्य, कलां नार्धन्ति षोडशीम् ॥ ३ ॥ एकतः क्रतवः सर्वे, समग्रवरदक्षिणाः । एकतो भयभीतस्य, प्राणिनः प्राणरक्षणम् ।। ४ ।। सर्वे वेदा न तत्कुर्युः सर्वे यज्ञा यथोदिताः । सर्वे तीर्थाभिषेकाश्च यत्कुर्यात्प्राणिनां दया ।। ५ ।। ददातु दानं विदधातु मौनं वेदादिकं चापि विदाङ्करोतु । देवादिकं ध्यायतु सन्ततं वा, न चेद्दया निष्फलमेव सर्वम् || ६ || सकमलवनमग्नेर्वासरं भास्वदस्ता–दमृतमुरगवक्त्रात्साधुवादं प्रवादात् । रुगपगमंमजीर्णाञ्जीवितं कालकूटा-दभिलषति वधाद्यः प्राणिनां धर्ममिच्छेत् ॥ ७ ॥"
१ दानाधिकारेऽभयदानोपदेशः
11911