SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ फूत्कृत्य दिक्षु क्षिपेत् । अप्येषा परमाणुसंहतिरिहानन्तैः परावर्तिते-स्तां स्तम्भाकृतिमेति नैव भविनां भूयोऽपि मानुष्यकम् ॥ १३ ॥ पुष्पमाला इति दशापि दृष्टान्ता मनुष्यभवदुर्लभत्वे दर्शिताः, तत्रापि प्राप्ते मनुजजन्मनि रोरस्य-अतिनिष्पुण्यकप्राणिनो रत्नादीनां निधिरिव मनुजत्वादि लघुवृत्तिः द्र दुर्लभो-दुरखापो भवति जिनधर्मो दानशीलतपोभावरूप इति । ननु निर्हेतुकस्य कार्यस्यासम्भवान्मनुजत्वजिनधर्मदुर्लभत्वे को हेतुरिति | दुर्लभत्वे है चेत् ?, उच्यते-"आदौ सूक्ष्मनिगोदे, जीवस्यानन्तपुद्गलावर्तान् । तस्मात्कालमनन्तं, व्यवहारवनस्पती वासः॥१॥ उत्सर्पिणीरसङ्ख्यः , प्रत्येकं भू-जला-ग्नि-पवनेषु । विकलेषु च सङ्ख्येयं, कालं भूयो भ्रमणमेवम् ॥२॥ तिर्यपञ्चेन्द्रियता, कथमपि मानुष्यकं ततोऽपीह । क्षेत्रकुलारोग्यायु-र्बुद्धयादि यथोत्तरं दुरखापम् ॥३॥" इति । आह च भाष्यकार:-"दसहिं उदाहरणेहिं, दुलहं मणुयत्तणं जहा भणियं । तह जाइकुलाईणि वि, दसदिलुतेहिं दुलहाई ॥१॥ एत्थं पुव्वं पुव्वं, लद्धपि तदुत्तरं पुणो दुलहं । जम्माणुसाईणं, अइदुलहो तेण जिणध3म्मो ॥२॥" अतो दुर्लभावेव मानवभवजिनधर्माविति गाथार्थः ॥३॥ अथ दुर्लभमनुजत्वजिनधर्मयोः प्राप्तयोर्यत्कर्त्तव्यं तदाह- 8 | तं चेव दिव्वपरिणइ-वसेण कह कहवि पाविउं पवरं। जइयव्वं एत्थ सया, सिवसुहसंपत्तिमूलम्मि ॥४॥ व्याख्या-तं चेति, तत्पुनरनन्तरोक्तं सजिनधर्म मनुजजन्म। एव शब्दोऽयं द्वितीयार्थ "एत्थ"त्ति पदे योज्यते । "दिव्व"त्ति दैवं, प्रस्तावान्मनुजत्वजिनधर्मप्राप्त्यनुकूलं कर्म, तस्य परिणति-विपाकः, तद्वशत्वेन-आयत्ततया, कथं कथमपि-महता कप्टेन प्राप्यलब्ध्वा प्रवरं-प्रधानं यतितव्यं यत्नः कर्त्तव्यः । क्व ? इत्याह-"एत्थ"त्ति एतस्मिन्नेव जिनधर्म सदा-सर्वकालं । जिनधर्म एव कुतो | यतितव्यं ? इत्याह-शिवसुखसम्पत्तिमूलत्वात्-मोक्षसुखप्राप्तिकारणत्वात् , नान्यत्रेति गाथार्थः॥४॥अथ च जिनधर्मोऽपि दानधर्मप्रधा-* नस्तत्रापि "दाणाणमभयदाण" इति [अत्रैव चतुष्पञ्चाशदधिकशततमगाथायामुक्तत्वात प्रथमतोऽभयदानोपदेशमाह RA
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy