________________
पुष्पमाला लघुवृत्तिः ॥५॥
दुलेमे मनुजत्वादिके दृष्टान्तदशकम्
SANSARSANELCOMBHASRO
तथाऽप्यसुकृती भूयस्तमाप्नोति न ॥२॥ ३-वृद्धा कापि पुरा समस्तभरतक्षेत्रस्य धान्यावलिं, कृत्वैकत्र च तत्र सर्षपकणान् क्षिप्त्वाऽऽढकेनोन्मितान् । प्रत्येकं हि पृथक्करोति किल सा धान्यानि सर्वाणि चेद्, भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न॥३॥ ४-अष्टसहस्रस्तम्भ-रष्टसहस्रातिभिः सभा तस्याः । एकैकानिर्जया, सहस्रमष्टाधिका वेलाम् ॥ ४॥ इत्येवं सर्वसभां, जित्वा राज्यं पिगृहीतव्यं । एकामपि चेद्वेलां, हारयति पुनर्नयेन्मूलात् ॥ ५॥ अपि सम्भवेदिदं खलु, विधिनाऽनेनापि कश्चिदिह राज्यं । गृह्णीयानहि जीवो, लभते मानुष्यमिह भूयः॥६॥५-रत्नान्याढ्यसुतैर्वितीर्य वणिजां देशान्तरं जग्मुषां, पश्चात्तापवशेन तानि पुनरादातुं | कृतोपक्रमैः । लभ्यन्ते निखिलानि दुर्घटमिदं दैवाद्घटेत्तत् क्वचिद् , भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति न ॥७॥ अथवामहार्णवजलान्तर-स्फुटितयानपात्रच्युतो; गतोऽम्बुनि पुनश्चिरा-दपि मणिव्रजो लभ्यते । भवेदपि न चाङ्गिना, भवसमुद्रमध्येऽभितो; मुहुर्विपरिवर्तिनां, भवति मानुषत्वं किल ॥८॥ ६खप्ने कार्पटिकेन रात्रिविगमे पूर्णेन्दुबिम्बं मुखे, व्यालोक्य प्रविशत् कुनिर्णयवशादल्पं फलं प्राप्य च । स्वमस्तेन पुनः स तत्र शयनादालोक्यते क्वापि चेद् , भ्रष्टो मर्त्यभावात् तथाऽप्यसुकृती भूयस्तमामोति न ॥९॥ ७-सव्यापसव्यं भ्रमतोऽतिवेगा-चक्राष्टकस्यारविचालमाप्य । अप्यस्वविद्विध्यति कोऽपि राधां, न मानुषत्वं पुनरेति जन्तुः॥१०॥ ८-चन्द्रं शैवलवल्लरीभिरभितश्छन्नेऽतिनिम्ने हृदे, कूर्मः कोऽपि हि कार्तिकीनिशि महाछिद्रेण दृष्ट्वा गतः। पातालात्स सबन्धुरेति सुचिराद् द्रष्टुं तदा न क्वचि-चन्द्रश्छिद्रमथो तथैव भविनां भूयो न मानुष्यकम् ॥११॥ ९-शम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमा-म्भोधौ दुर्द्धरवीचिभिश्च सुचिरं संयोजितं तवयं । सा शम्या प्रविशेागस्य विवरे तस्य स्वयं क्वापि चेद् , भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमामोति न ॥ १२ ॥१०-स्तम्भ रत्नमयं महान्तममरः सञ्चूर्ण्य सूक्ष्माणुशः, कश्चिन्मेरुशिरःस्थितो नलिकया
PURNAMESSA)