________________
LE
पुष्पमाला लघुवृत्तिः
अमिवेया दया
शेषाः, ते चेह धर्मविषया द्रष्टव्याः, जिनवचनोद्धृतत्वादेव, तेषां मालां-परिपाटी, एतां वक्ष्यमाणां, रचयामि-करोमि, कामिव ?, वरकुसुममालामिव, यथा कश्चित्कुतश्चित् काननात्कुसुमान्यादाय श्वेतादिवर्णविशिष्टां दृढसूत्रतन्तुप्रधानां कुसुममाला रचयति तथाऽहमपीति। अत्र चोपदेशमालां रचयामीत्यभिधेयाभिधानं, प्रयोजनं तु कर्तुरनन्तरं सत्त्वानुग्रहः, श्रोतुश्च दानादिधर्मपरिज्ञानं, परम्परन्तूभयोनिःश्रेयसावाप्तिः, सम्बन्धस्तूपायोपेयरूपः शास्त्रधर्मोपदेशयोः सिद्ध एव, जिज्ञासितधर्ममर्माणश्चेहाधिकारिणः, एतच्च त्रितयमपि सूत्रे साक्षादनाख्यातमपि सुप्रतीतमेव, मङ्गलं तु त्रिभुवनगुरुनमस्करणलक्षणं प्रथममेव दर्शितमिति सकलशास्त्रकारप्रवृत्तिरनुसृतेति गाथार्थः ॥२॥
अथ ये मनुजजन्मनो धर्मस्य च सुलभत्वमाकलय्य प्रमादनिद्रामुद्रितनयनास्तांस्तदुर्लभत्वोपदेशेन जागरयतिरयणायरपब्भर्टी, रयणं व सुदुल्लहं मणुयजम्म । तत्थवि रोरस्स निहिव्व, दुल्लहो होइ जिणधम्मो ॥३॥
व्याख्या-रत्नाकरप्रभ्रष्ट-अब्धौ पतितं रत्नमिव सुदुर्लभं-अतिदुर्लभं मनुजजन्म-मनुष्यभवो जीवेन, एतेन च "चुल्लंगपासंगधन्ने, जूएँ रयणे य सुमिणचके य । चम्मजुगें परमाण, दस दिटुंता मणुयलंभे ॥१॥" एते दशापि सिद्धान्तप्रसिद्धा मानुषजन्मा| तिदुर्लभत्वदृष्टान्ताः सूचिताः, तत्र "चोल्लग" इति देशीयभाषया भोजनं, 'चर्म' शब्देन महाजलाशयोपरिवर्तिघननिबिडसेवालमिहाह।
एतत्कथासूचकानि चामूनि काव्यानि
१-विप्रः प्रार्थितवान् प्रसन्नमनसः श्रीब्रह्मदत्तात्पुरा, क्षेत्रेऽस्मिन् भरते खिले प्रतिगृहं मे भोजनं दापय । इत्थं लब्धवरोज्थ तेष्वपि कदाऽप्यश्नात्यहो!! द्विः स चेत, भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमामोति न ॥१॥२-सिद्धद्यूतकलाबलाद्धनिजनं नित्वाऽथ हेम्नां भरै-चाणाक्येन नृपस्य कोशनिकरः पूर्णीकृतो हेलया । देवादाढ्यजनेन तेन स पुनर्जीयेत मन्त्री क्वचिद्, भ्रष्ठो मर्त्यभवात्
AMRESHA
॥
४
॥