________________
पुष्पमाला लघुवृत्तिः
॥ ३ ॥
तथा अकलङ्कं-गोगजतुरगाद्यनाक्रमणीय सिंहलाञ्छनं, यद्वा अकलङ्कं - अविद्यमानत्रतलोपादिवचनीयं । तथा असङ्गं - सबाह्याभ्यन्तरपरिग्रहरहितं । तथा अक्षर्द, अक्षाणि - इन्द्रियाणि, द्यति-खण्डयति स्वेच्छाप्रवृत्तिप्रतिरोधेनेत्यक्षदं, यद्वा अक्षयं - अविनाशिमुक्तिपर्यायं । तथा धीः–सकलावरणविप्रमुक्ता समस्तवस्त्ववबोधशक्तिः, तया राजते तां राति वा तत्प्रापणप्रवणोपदेशद्वारेणेति धीरस्तं धीरं, यद्वा तथाविधपरीषहोपसर्गसंसर्गेऽप्यप्रकम्पं, अनन्तवीर्यत्वात् । तथा सुगतिप्रत्यलपरं, सुदेवत्वसुमनुजत्वसिद्धिलक्षणायाः सुगतेः प्रापणे [ये] प्रत्यलाः-समर्थास्तेषु परं-उत्कृष्टं । तथा अर्थप्रकाशनं, अर्था ज्ञानादयो जीवादयो वा, तान् प्रकाशयतीत्यर्थप्रकाशनः, “ कृत्ययुटोsन्यत्रापि चे 'ति [" कृत्यल्युटो बहुलं" पा०-३-३-११३] कर्त्तरि युद्ध, तं। अथवा सुगतेः प्रापणे 'प्रत्यलाः' परमाः - सद्युक्तिरिक्तपरपरिकल्पितपदार्थेभ्यो व्यतिरिक्तत्वेन उत्कृष्टा अर्था-ज्ञानादयो जीवादयो वा, तान् प्रकाशयतीत्येकमेव विशेषणम् । अत्र च अकर्माणमित्यनेनापायापगमातिशयो धीरमित्यनेन ज्ञानातिशयः सुगतिप्रत्यलेत्यादिना वचनातिशयः साक्षादाख्यातः, एतादृग्गुणग्रामरमणीयश्चावश्यं भक्तिभरनिर्भरसुरासुरनिकरकोटीरकोटिघृष्टपादपीठोपकण्ठ एवं स्यादिति पूजाऽतिशयोऽप्यर्थादुक्त एव इत्यनन्यसाधारणमतिशयचतुष्टयं भगवतः प्रकटितमिति । तथा अत्र स्वपरोभयार्थसम्पत्तयस्तदुपायाश्च भगवतः प्रेक्षावद्भिर्विशेषव्याख्यानुरोधेन स्वयं परिभावनीया इति गाथार्थः ॥ १ ॥ अथ ग्रन्थकारः कतिचित्सुकृतोपदेशरचनं प्रतिजानीतेजिणवयणकाणणाओ, चिणिऊण सुवण्णमसरिसगुणडूढं । उवएसमालमेयं, रएमि वरकुसुममालं व ॥२॥
ब्याख्या – जिनवचनमेव काननं वनं, तस्मात् " चिणिऊण” चित्वा - सगृह्य, अर्थाद्धर्मोपदेशान्, शोभना वर्णा- अक्षराणि यस्यां सा सुवर्णा, तां । तथा असदृशाः - सिद्धिप्रापकत्वेनानन्यतुल्या गुणा ज्ञानादयस्तैराढ्या-परिपूर्णा, तां । उपदिश्यन्त इत्युपदेशाः - वाक्यवि
मङ्गलम्
॥ ३ ॥