________________
मालम्
पुष्पमाला लघुवृत्तिः ॥२॥
स्तदादौ प्रत्यूहव्यहव्यपोहेन चिकीर्षितशास्त्रपरिसमाप्तये श्रोतृप्रवृत्तये शिष्टसमयप्रतिपत्तये च विशिष्टेष्टदेवतानमस्काररूपभावमङ्गलगी तावदिमां माथामाह
सिद्धमकम्ममविग्गह-मकलंकमसंगमक्खयं धीरं । पणमामि सुगइपच्चल-परमत्थपयासणं वीरं ॥१॥ ___व्याख्या-इह “संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य पड्विधा॥१॥" इति, तत्र संहितोक्तैव, पदविभागस्तु सुगमः, चालनाप्रत्यवस्थाने दुर्घटत्वग्रावसङ्घट्टे, न तु प्रस्खलचलनोऽल्पधी त्र सञ्चारमारचयितुं पटीयानिति ते उपेक्ष्य पदार्थादिनैव मन्दमतिसत्त्वोपकृतये यथाप्रतिज्ञं व्याख्यायते-तत्र विशेषत ईर्ते-परमपदं गच्छतीति “पचाद्यच्"[पा०३-१-१३४]] विधानाद्वीरः, यदि वा 'ईरणमीर' इति भावे घञ्, ततश्च विशिष्ट ईरो-गमनं "सर्वे गत्यर्था ज्ञानार्था" इति ज्ञानं वा यस्य स वीरः, अथवा विशिष्टा तपोरूपा तीर्थकुन्नामकर्मोदयसमुद्भूतातिशयलक्षणा वा ईलक्ष्मीस्तया राजते-शोभते,इत्यन्यतोऽपि चेति 'ड'प्रत्यये वीरस्तं वीरं-12 श्रीवर्द्धमानं वर्तमानतीर्थाधिपतिं प्रणमामीति क्रियासण्टङ्कः । कथम्भूतमित्याह-सिद्ध। सितं-बद्धं, ध्मातं-दग्धं कर्म येन स तथा, पृषोदरादित्वात्सिदादेशधकारौ। अथवा 'षिधू गत्यां' सेधति स्म-सिद्धः,निर्वृतिप्रासादोपरि गत इत्यर्थः । अथवा सिद्धस्त्रिभुवनख्यातः, अथवा 'षिधू शास्त्रे माङ्गल्ये वा' सेधति स्म सिद्धः, शिक्षयति स्मेत्यर्थः, कृतमङ्गलो भवतीति वा, आजन्मदेवासुरविधीयमाननानोत्सवत्वात् । | यद्वा 'षिधृ संराद्धौ सिध्ध्यति स्म सिद्धः, परिनिष्ठितार्थो भवतीत्यर्थः, तं सिद्धं । तथा अकर्माणं-निष्ठितज्ञानावरणीयादिनिःशेषकर्माण, अथवा अक्रम्य-रागादिभिरनाक्रमणीयं । तथा अविग्रहं-सर्वतः साग्रयोजनशतक्षेत्रक्षिप्तसमस्तजन्तुविरोधं अशरीरं वा,अथवा अत्र अविःमेरुः, ग्रहाः-सूर्यादयस्तद्वतस्थैर्यतेजः सोमतादिप्रवरो विग्रहो-देहो यस्य स तथा, इति विग्रहशब्दावृत्या व्याख्यायते, तं [अविग्रहविग्रह]।
BAEBARE