________________
पुष्पमाला लघुवृत्तिः
॥ ॐ अहं नमः ॥ लक्षाधिकनूतनश्राद्धकर्तृशासनप्रभावकश्रीमजिनदत्त-कुशलसूरीश्वर-क्रियोद्धारकश्रीमन्मोहनमुनीश्वरक्रमकजेभ्यो नमो नमः॥ मलधारगच्छगगनाङ्गणनभोमणिश्रीमदभयदेवसूरिशिष्यश्रीमद्धेमचन्द्रमूरिसङ्कलिता श्रीमत्खरतरगच्छालङ्कारहार-जेसलमेरुजावालिपुराधनेकचिकोशसंस्थापक-श्रीजिनभद्रसूविरान्तेवासि-महोपाध्यायश्रीसिद्धान्तरुचिधिनेय-श्रीमत्साधुसोमगणिवर
गुम्फितया लघुवृत्त्या समलङ्क्ता उपदेशमालेल्यपरनामधेया
* पुष्पमाला
जयति जगदेकभानुः, प्रकटितसकलार्थसार्थपरमार्थः । प्रहततमाः परमात्मा, प्रभाम्बुधिर्मुनिजनकृतार्थः॥१॥ श्रीहेमचन्द्रगुरुणा, विवृत्तामपि विस्तरेण वितताम् । विवृणोमि पुष्पमाला-मल्पाक्षरमल्परुचितुष्ट्यै ॥२॥
इह हि पुरुषार्थेषु प्रधानतमो धर्मः, धर्म चोपकारस्तस्मिन्नपि भावोपकारः, तत्रापि स्वपरोपकारः । स च भगवद्भक्तिभावितस्य सम्यक्तत्त्वोपदेशसुसाध्यः, स च शास्त्ररूपापन्न एव स्वस्य स्मृतिद्वारेण परेषां च ज्ञाताज्ञातहिताहितप्रवृत्तिनिवृत्तिस्थापनज्ञापनद्वारेण चिरं खसाध्यं साधयितुमलं, इति परिभाव्य भगवान् ग्रन्थकारः पुष्पमालेत्युपमाननाम्ना प्राप्तप्रसिध्ध्युपदेशमालाख्यं प्रकरणं चिकीर्षु