________________
भावनाधिकारे महाफल संयतीसेवनखा।
व्याख्या-यो लिङ्गिनी-साध्वी निषेवते, स कथम्भृतो?, लुब्धो-गृद्धः निःशूकस्तथा महापापः, तेन सर्वजिनानां ध्येयः पुष्पमाला सङ्घ आशातित इति गाथार्थः ॥४५०॥ किश्चलघुवृत्तिः| पावाणं पावयरो, दिठिऽब्भासे वि सो न कायव्यो । जो जिणमुदं समणिं, नमिउं तं चेव धंसेइ ।।४५१॥ ॥२७॥ व्याख्या-पापानां पापतरोऽसौ, दृष्ट्यभ्यासेऽपि-दृष्टिसमीपेऽपि स न कर्त्तव्यो, यः किम् ? इत्याह-जिनस्य मुद्रा यस्याः सा
जिनमुद्रा, ता जिनमुद्रां श्रमणी ज्ञानादिगुणाधारत्वेन नत्वा पुनस्तामेव ध्वंसयति-चरणजीवितनाशेन च नाशयतीति गाथार्थः॥४५२॥
तस्यैव जिनमुद्राघातिनः पारत्रिक दोषमाहसंसारमणवयग्गं, जाइजरामरणवेयणापउरं । पावमलपडलच्छन्ना, भवंति मुद्दाधरिसणेण ॥४५२॥
व्याख्या-संसारमनवदग्रं-अपर्यवसितं जातिजरामरणवेदनाप्रचुरं, प्राणिनो भ्रमन्तीति शेषः । पापमलपटलच्छन्नाथ भवन्ति । केन ? इत्याह-जिनमुद्राया-जैनव्रतरूपाया घर्षणेन-लोपेनेति गाथार्थः ॥४२॥
ननु स्त्रीलक्षणमेवामायतनं वर्जनीयं उतान्यदपि , तर्जने च किं (अपरं) सेवनीयमित्याशझ्याह| अन्नं पि अणाययणं, परतित्थियमाइयं विवज्जेज्जा । आययणं सेवेज्जसु, वुड्डिकरं नाणमाईणं ॥४५३॥
- व्याख्या-अन्यदप्यनायतनं परतीथिकादिकं विवर्जयेत्-परिहरेत् , आयतनं च सेवेत ज्ञानदर्शनचारित्राणां वृद्धिकरमिति | गाथार्थः ॥४५॥ यतः