________________
पुष्पमाला लघुवृत्तिः ॥२७६॥
भावनापिकी ला संकाशबाद
कथानकम्।
ॐॐॐARSHA
गन्धिलावत्यां [नगर्या] अमरभवनोपमं शक्रावतारनामकं जिनायतनं, तस्य च गुर्वी कोशसमृद्धिबहुद्रव्यागमश्च । इतश्च तत्रातिसमृद्धो महाश्राद्धः सङ्काशसंज्ञः परिवसति, स तस्मिश्वेत्ये सकलां तप्तिं करोति, नित्यमुपयुक्तस्तद्रव्यं वर्द्धयति, सम्यग्लेख्यकं करोति, ततोऽतिधर्मपरं समृद्धमुद्युक्तं च तं मत्वा न कोऽप्यन्यः श्रावकस्तप्तिं करोति, सङ्काशोऽप्यप्रमत्तः परमभक्त्या तं व्यापार चालयति । इति व्रजति काले सोऽपि कथमपि प्रमादी जातः, ततश्चैत्यवस्तु यत्किञ्चित्तत्करे चटति तत्क्षिपति स्ववस्तुनि, चिन्तयति च-क्षेप्पयामि लेख्यके, पवाद्विस्मारयति । कालेन त्रुटितधनो दास्यामीति बुद्ध्या कार्ये जाते चैत्यद्रव्यं व्ययति, असम्पच्या न ददाति, इति प्रसङ्गे वर्द्धिते नष्टसर्वधनः क्लिष्टपरिणामः सर्व तद्व्यं नाशितवान् । कालेनानालोच्य मृत्वा सप्तसु नरकेषु महादुःख मनुभूय तिर्यक्षु दुःखानि विषय मनुष्येषु हीनकुलेब्वनेकशो दरिद्रो जातः। अन्यदा कथमपि तगरानगाँ इभ्यः श्रेष्ठिसुतोऽजनि। बालत्वेऽपि पित्रोर्मरणेन लक्ष्मीगमने दुःखी दुर्भगोऽतिदीनः कष्टाजीविकः शून्यो भ्रमति । अथान्यदा तत्रैवागतस्य केवलिनः पार्श्व सं दुःखकारणमपृच्छत । केवली सर्व देवद्रव्यविनाशजं कर्माख्यातवान् । तच्छुत्वोदरनिर्वाहाधिकं द्रव्यं देवगृहे व्ययिष्ये त्यभिग्रहं गृहीत्वा तत्रैव [व्यवसायं] कुर्वन्नुपार्जितप्रभूतधनो जिनप्रासादबिम्बस्नात्र यात्राजीर्णोद्धारादीनि धर्मकृत्यानि प्रतिपुरं प्रतिनगरं रचयन् शासनप्रभावनां विधाय विगतकर्मा सिद्धः, इति सङ्काशजीवकथानकं समाप्तम् ॥
तस्माञ्चत्योद्धारादिप्रयोजनवतश्चैत्यद्रव्यस्य विनाशे दोष एवेत्यतस्तद्रक्षा विधेया। इत्यलं प्रसङ्गेनेति गाथार्थः ॥४४९॥
अथ प्रकृतमुच्यतेजो लिगिणिं निसेवेइ, लुद्धो निद्धंधसो महापावो । सबजिणाण ज्झाओ, संघो आसाइओ तेण ॥४५०॥
का॥२७६॥