________________
४ मावनाधिकार महानर्थत्वं देवद्रव्यादिभवणख।
IN
--
दारुणदाखान्वितं प्रचुरतरं पर्यटन्ति, बोधिं तु सर्वथा न लभन्ते, यदि तु केचिठभन्ते तेऽप्यतिकष्टेनेति गाथार्थः ॥४४७। पुष्पमाला
ननु सन्तु संयतीचतुर्थव्रत मङ्गादयो विरुद्धाः, देवस्थापि निष्प्रयोजनस्य चैत्यद्रव्यस्य भक्षणं निर्दपणमेवेत्याशक्याह- रघुवृत्तिः । चेइयद्व्वं साहा-रणं च जो मुसइx जाणमाणो वि। धम्म पि सोन याणइ, अहवा बद्धाउओ नरए॥४४॥
व्याख्या-चैत्यद्रव्यं प्रसिद्धं, साधारणं च-जीर्णचैत्योद्धारादिनिमित्त मेकत्र स्थापितं द्रव्यं च यो जानन्नपि मुष्णाति-स्वयं भक्षयति अन्यैर्वा भक्षयति मक्षयतो वाऽन्यत्समनुजानीते स एवम्भूतो जन्तुरनयैव चेष्टया ज्ञायते यदुत-सर्वज्ञोक्तं धर्ममपि न जानाति, अथा ज्ञातजिनधर्मोऽपि यद्येवंविधपापेषु प्रवर्तते तदा ज्ञायते यदुत-पूर्वमेव नरके बद्धायुष्कोऽयं, अन्यथा तत्प्रवृत्त्ययोगादिति गाथार्थः ॥४४८॥ अथ चैत्यद्रव्योपेक्षिणां सदृष्टान्तं दोषमाह___ जमुवेहंतो पावइ, साहू वि भवं दुहं च सोऊणं । संकासमाइयाणं, को चेइयदबमवहइ ? ॥४४९॥
व्याख्या-यच्चैत्यद्रव्यमुपेक्षमाणः-सति सामर्थे देशनादिद्वारेण तद्रक्षामकुर्वन् साधुरपि, आस्तामन्यः वयं भक्षकादिः; भवं-संसारमनन्तं प्रामोति, उक्तं च श्रीनिशी [थभाष्ये] थे
"चेइयबविणासे, तहव्वविणासणे दुविहभेए । साहु उविक्खमाणो, अगंतसंसारिओ होइ ॥१॥" ततश्चैत्यद्रव्यापहारिणां सङ्काशश्रावकादीनां दुःखं चानन्तं श्रुत्वा कश्चैत्यद्रव्यमपहरति ?,न कोऽपीत्यर्थः। सङ्काशकथानकं त्वेवमुच्यते
x इतः “ सयं व भक्खेद। सइ सामस्थि उवेक्वइ, जाणतो सो महापावो ॥” इति बृहद्वृत्त्यन्वितमुद्रितप्रतो ।
॥२७॥
-
-