________________
४ भावनाधिकारी संयतीसंसर्गव विशेषतोऽनायतनत्वम् ।
कृते तेन सर्वमप्युक्तं तदने, ततोऽतिविषन्नया तया संपारभ्रमणमयं दर्शयित्वा स जिनदीक्षाऽभिमुखः कृतः, सोऽपि संविग्नो गुरुपादपुष्पमाला
मूले [पुनः] प्राबाजीत् । ततो गुरून्नत्वाऽवदत्-भगवन् ! गतसचोऽहं, न चिरं दीक्षा रक्षितुं क्षमा, तयदि भवतामनुमतिः स्यात्तदाऽलघुवृत्तिः नशनं कृत्वा शीघ्रमेव स्वकार्य साधयामि, आराधक इति ज्ञात्वा गुरुभिरनुज्ञातः पापान्यालोच्य शैलशिखामारुह्य तप्तशिलातले ॥२७४॥ कायोत्सर्ग स्थितो ग्रीष्मे मध्याहे सर्वतस्तापितः सुकुमालो नवनीतपिण्डवद्विलयं गतः। शुभध्यानाद्वैमानिकस्सुरोऽभूत् । एवं संसर्गमात्रेऽपि
बहुलानर्थफला महिला ज्ञात्वा तत्संसर्ग दरतस्त्यजेदिति अनिकयथा समाप्ता॥
सम्प्रति संयतीसंसर्गस्य विशेषतोऽनायतनत्वमाहइयरत्थीण वि संगो, अग्गी सत्थं विसं विसेसेइ । जो संजईहिं संगो, सो पुण अइदारुणो भणिओ ॥४४६॥
• व्याख्या-तदेवं मुक्तप्रकारेण इतराखामपि गृहस्थकलिङ्गिस्त्रीणां सङ्गः-सम्बन्धः अग्निं शवं विषं च विशेषयति-अतिशेते, - अग्न्यादीनामेकमविकदुःखमात्रदायकत्वात् स्त्रीसंसर्गस्य त्वनन्तभविकानन्तदुःखदायकत्वादिति भावः। यः पुनः संयतीनां साध्वीनां सङ्गः, सोऽतिदारुणोऽनन्तानन्तरौद्रदुःखदायको भणित आगम इति विशेषेणासौं वर्जनीय इति गाथार्थः ।।१४६॥ आगमोक्तमेवाह
चेइयदबविणासे, इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बौहिलाभस्स ॥४४७|| ___ व्याख्या-इह चैत्यं-सामान्येन जिनायतनं, तस्य सम्बन्धिद्रव्यं, तद्विनाशे कृते, तथा ऋषिधाते-संयतविनाशे कृते, प्रवचनस्य चोड्डाहे प्रकृष्टाकृत्यकरणेन कृते, संयत्याश्चतुर्थवतभङ्गे कृते प्राणिना मूलाग्निदत्तो भवति, कस्य ? बोधिलाभस्य-सम्यक्त्व लाभतरोरिति सर्वत्र योज्यते। अयम्भावः-अन्येनापि महापापकरणेन प्राणिनोऽनन्तं भवं बम्भ्रन्त्येव, एभिः पुनर्विशेषतस्तमेव
ॐॐॐॐॐॐॐॐ
नयर
॥२७॥