________________
पुष्पमाला लघुवृत्तिः ॥२७३॥
ACEACCAL
४ भावनाधिकारे | अईचक
कथानकम् ।
क इव ? इत्याह-प्रोषितो-[विदेशङ्गतो] धनाढ्यवणिक्, तस्य भवनं-गृहं, तत्समीपे उपितो-विश्रामहेतोः स्थितः, स चासौ मुनिश्च प्रोषितभवनोषितमुनिस्तद्वत् । कः पुनरसावित्युच्यते
तगरापुर्या देवदत्तो वणिक्, तस्य भार्या भद्रा, सुतोऽर्हनका, अन्यदा देवदत्तो वैराग्यादर्हन्मित्राचार्यसमीपे ससुतभार्यः प्राब्राजीत् । सुचारित्रपालनपरोऽपि पुत्रं स्नेहेन लालयन् साधुभिर्वारितोऽपि न व्यरंसीत् । अर्हन्नको बहुलालितत्वात्सुखशीलो जातः। अन्यदा पितरि मृतेऽतिदुःखितः स्वयमेव मिक्षायै भ्रमन् सुकुमालः परीषहोपसगाई बाध्यते । अथ ग्रीष्मे परितप्तसकलभुवने मिक्षार्थ भ्रमन्नसौ दृढं परिश्रान्तः सर्वाङ्गस्वेदपूर्णः प्रोषितकसार्थवाहमहागृहच्छायायां यावद्विश्राम्यति क्षणमेकं तावद्वहुदिनम वियोगजनितमदनाग्निसन्तापा तद्गृहस्वामिनी वातायनस्था तपःशोषितगात्रमप्यन्निकं सुरूपं सुकुमालं विलोक्याकार्य प्रचुरतरमोदकाचाहारान् दत्वा शृङ्गारसारवचनाङ्गविकारप्रकारैः खानुरक्तं तं कृत्वा स्वगृहे प्रच्छन्नमस्थापयत् । सोऽथ सर्वैः कामाङ्गैस्समग्रस्तया समं भोगान् भुञ्जन् दिनानि गमयति । इतश्च स सर्वतः साधुभिर्गवेषितोऽपि न दृष्टः, तजननी च साध्वी सुतस्नेहेन तं विलोकयन्ती अर्हन्त्रक अहन्नक इति विलपन्ती 'दृष्टः क्वाप्यहन्त्रक' इति प्रतिजनं पृच्छन्ती भ्रान्तचित्ता पुरे बम्म्रमीति । अन्यदा राजपथस्था प्रच्छन्नगवाक्षस्थेन सुतेन दृष्टा सा, ततो लज्जितोऽसावित्यचिन्तयत्
"पेच्छह अहो !! कुपुत्तो, सोऽहं इय जस्स कारणे एसा। एयावत्थं पत्ता, सुन्ना परिभमइ नयरीए ॥१॥" "अहवा दुप्पुत्तेहिं, जाएहिं किं फलं हवइ अन्नं ? । जाओ अरणीए सिही, दाई मोत्तूण किं कुणइ ? ॥२॥" इत्यादि स्वं निन्दन झगिति गेहानिर्गत्य मातरन्तिकमगात् । तं सहसा दृष्ट्वा सा हृष्टा पूर्वव्यतिकरमपृच्छत् । ततोऽत्याग्रह
॥२७॥
..