________________
पुष्पमाला लघुवृत्तिः
॥२७८॥
भागदव्वं जीवो, संसग्गीए गुणं च दोमं च । पावइ एत्थाहरणं, सोमा तह दियवरो चेव ||४५४ || व्याख्या - जीवो हि भावुकद्रव्यं, अतः शोमनेतरसंसर्गेण गुणं च दोषं च प्राप्नोति, अत्रोदाहरणं सोमा तथा द्विजवरथेति गाथार्थः || ४५४|| कथानकं तूच्यते
भोमपुरे नगरे ज्वलनशिखो विप्रस्तस्य सूरानाम्नी भार्या युग्मं प्रसूना, चित्रभानुनामा पुत्रः सोमानाम्नी सुता । तौ कलाकुशल प्राप्तयौवनौ पित्रा उत्तमकुले परिणाय्य शिक्षितौ वत्सो ! कुसंसर्गरतौ मा भवेतां, यतः
"तं न कुणइ वेयालो, अग्गी सत्थं महाविसो सप्पो जं कुणइ कुसंसग्गो, माणुसस्स इह परभवविरुद्धो ॥१॥" किश्च - "पेच्छसु संसग्गीए, माहप्पं जेण कहवि एमेव । मिलिओ दुजणमज्झे, लहइ कुसंभावणं झन्ति ||२|| सजणमज्झगओ पुण, महंत संभावणाए इयरो वि। संभाविज्जइ लोए, किमेत्थ भणिएण अन्नेण ? || ३ || "
इत्यादि पितृशिक्षां प्रतिपद्य सर्वजनैः समं आलापमात्र सङ्गं त्यक्तवन्तौ । अन्यदा पितरि मृते प्रातिवेशिक्याः शीलवती नान्याः श्राविकायाः आसन्नत्वात्तद्वाक्यानि जैनधर्मानुगानि स्वकुम्बाग्रे भण्यमाणान्याकर्ण्य प्रबुद्धा सोमा चिन्तयति- पितृप्रोक्तः सुसंसर्गस्तदा सम्यग्जायते यद्यस्याः सङ्गतिः स्यादिति । ततः सा शीळवत्याः सखी जाता, जिनधर्म प्रपेदे । शीलवती प्राह- सखे १ जिनधर्ममाहत्य यदि अविवेकिजनवचनैम्त्यक्ष्यसि तदा संसारेऽतिभ्रमिभ्यसि, अतः कन्या सिद्धवदस्थिरचित्ता मा भवेः, यथा - कश्चिद्विजो दरिद्रः कश्चन विद्यासिद्धमाराध्य विद्यां लब्धवान्, साघिता तेन विद्या, विद्यादेवी तस्यैकां कन्यां समर्प्य प्राह
४ भावनाधिकारे कुसङ्गत्यागात्यागे चित्रभानुसोमा दृष्टान्तौ ।
॥२७८॥