________________
पुष्पमाला लघुवृत्तिः
॥२६८॥
यदहं भवादुघृतो नमस्कारस्मारणेन, तद्भण यत्तव प्रियं करोमि, श्राद्धेनोक्तं-किंमन्येन मे ? तथा त्वं कुरु यथा न म्रियते नंगरनरः, ततस्तुष्टः सुरः प्राह तत्रैव स्थितस्य तवोच्छीर्ष के प्रत्यहमह मेकैकं बीजपूरं स्थापयिष्ये, तन्नृपतेर्देयं, एवं च राजा त्वयि तुष्टों भविष्यति, न च नगरजनो मरिष्यति इति वरं प्राप्य स स्वगृहं प्राप्तः । ततो राज्ञा लोकेन चातिविस्मितेन पृष्टः पूर्वोक्त सर्व जिननमस्कारमहात्म्यमाह । ततो बहुलोको जिनधर्म प्रपेदे । राजाऽपि तुष्टो घनं घनं दत्त्वा श्राद्धमदरिद्रं चकार । एवं इहलोकेऽपि विशुद्धचित्तानां जन्तूनां जीवितधनावो नमस्कारो नियमाज्जायते इति मातुलिङ्गवनाख्यानकं समाप्तम् ॥
पारलौकिके नमस्कार माहात्म्ये चण्डपिङ्गलकथानकम्, तच्चेदम् — वसन्तपुरे चण्डपिङ्गलचौरः श्राविकावेश्यागृहे वसति तदनुरक्तः, अन्यदाऽनेन राज्ञो गृहान्महामूल्यो मौक्तिको हारश्रौरयित्वाऽतियत्नेन वेश्यागृहे गोपितः, अन्यदा महोत्सवे सर्वा asurः खखसमृद्धिसमुदयेनालङ्कृता बहिर्वजन्ति, अथ सर्वास्वमेवातिशयतः शृङ्गारा स्यामिति तस्करवेश्या तमेव हारं कण्ठे क्षिप्लोद्यानं गता नृपपत्नीचेट्या दृष्टा, उपलक्षितो हारस्तया, ज्ञापितं च देव्याः, तया च राज्ञस्तेन च गवेषयित्वा गृहीतस्तस्करो विव्य शूलिकया भिन्नः । तच्छ्रुत्वा वेश्या स्वं निन्दन्ती महादुःखिता तत्र गत्वा चौरं नमस्कार मनुशास्ति 'इह नृपपुत्रो भवेय' मिति निदानं चाकारयत्तस्मात् । ततोऽयं नमस्कारं पठन् मृत्वा तेन निदानेनाग्रमहिषीगर्भे पुत्रत्वेनोत्पन्नः यावत्सा वेश्या भवितव्यतावशेन क्रीडापनधात्रीत्वं प्राप्ता । अथ सा चिन्तयति-गर्भस्य चण्डपिङ्गलमरणस्य च तावत्तुल्य एव कालः, तस्मात्सम्भाव्यते स एवायं इति विचार्य रुदतस्तस्य कुमारस्य भणति - मा रोदिखण्डपिङ्गल !, पुनः पुनरित्यालपत्यां जातं जातिस्मरणमस्य, जिनधर्मः प्रतिपन्नः, स च कालेन राज्यं प्रतिपाल्य तया वेश्यया समं प्रवज्यां प्रतिपद्य तत्सममेव सिद्धः । एवं नमस्कागे भोगफलः शिवफलथ
४ भावनाधिकारे पारत्रिके नमस्कार मन्त्रफले Sasurनिदर्शनम् ।
॥ २६८ ॥