________________
पुष्पमाला लघुवृतिः ॥२६०॥
वेयावचं निययं, करेह उत्तमगुणे घरंताणं । सव्वं किर पडिवाई, वेयावच्च अपडिवाई ॥४१९ ॥
व्याख्या - वैयावृत्थं नियतं निश्चितं कुरुत यूपं, केपां ? इत्यापाद - उत्तनान् ज्ञानदर्शनचारित्रगुणान् ये धरन्ति तेषां यतः कारणात्, किठे या तो रहेगें, सर्व चारित्रश्रुतादिकं प्रविरतनशीलं वैयावृत्थं पुनरप्रतिपाति- अविनाशीति गाथार्थः ॥ ४१९ ॥ एतदेव भावयति
पडिभग्गस्स मयस्स व, नासइ चरणं सुयं अगुगणाए । न हु वेथावच कथं, सुहोदयं नासए कम्मं ॥४२०॥
व्याख्या - प्रतिभग्नस्य - उत्प्रवजितस्य सतो मृतस्य अविरतत्वमापन्नस्य नश्यति तावचरणं, 'वा' पुनरर्थे श्रुतं पुनरगुणनयाअपरावर्त्तनया नश्यति, अतस्सर्वमपीदं प्रतिपाति, न तु वैयावृत्योऽपि, तुल्यमेवैतदिति चेच्चरणश्रुतशब्देनात्र तजनितं शुभ कर्मोच्यते, ततश्चरणश्रुतगुणेनोपार्जितं यच्छुभं कर्म तत्यतिभग्नाद्यवस्थायामविरतस्य विस्मृतसूत्रस्य च सतः किंश्चित्प्रदेशोदयेनैववेद्यमानं स्वकीयविपाकमदत्वा एवमेव नश्यति वैयावृच्ये तु नैवमित्याह - 'न हु' नैव वैयावृत्येन हेतुभूतेन क्रतं शुभ उदयो-विपाको यस्य तच्छुभोदयं - शुभविपाकं कर्म तीर्थकर नामोच्चे गोत्रादिकं प्रदेशोदय मात्रेणैव वेद्यमानं स्वविपाकमदत्वा एवमेव न खल्वपगच्छति, हेतोः प्रबलसामर्थ्येन प्रतिभग्नाद्यवस्थायामपि खविपाकेनैव तत्प्रायो वेद्यते, नान्यथेति भावः । इति वैयावृत्यमप्रतिपातीति बुद्ध्यामहे, तवं पुनः केवलिनो विदन्तीति गाथार्थः ४२०|| ननु यद्येतावान्गुणो वैयावृत्यस्य तर्हि गृहस्थादीनामपि तत्कुर्म इत्याहगिहिणो वेयावडिए, साहूणं वन्निया बहु दोसा । जह साहुणी सुभद्दाए, तेग विसए तयं कुज्जा ॥४२१ ॥
४ मावनाधिकारे वैयावृत्यस्याप्रतिपातिगुणत्वम् ।
॥ २६०॥