________________
पुष्पमाला लघुवृतिः
॥२५७ ॥ !
| भरहेखयविदेहे, पन्नरस वि कम्म भूमिगा साहू । इक्कम्मि [वि] पूइयम्मि, सव्वे [व] ते पूइया हुंति ॥४१६॥ व्याख्या - भरतैरवत विदेहेषु पञ्चदशखपि कर्मभूमिषु गच्छन्ति तिष्ठन्तीति पञ्चदशकर्मभूमिगा, ये केचन साधवस्ते सर्वेऽपि पूजिता भवन्ति, कव सति ?, एकस्मिन्नपि साधौ पूजिते सति यतः समयवचनं । ततो बृहल्लाभसम्भवाद्भक्तपानादिना साधूनां वैयावृत्त्यं कर्त्तव्यमिति भाव, इति गाथार्थः ॥ ४१६ ॥ व्यतिरेकमित्याह
एक्कम्मि हीलियम्मि वि, सवे ते हीलिया मुणेयव्वा । नाणाईण गुणाणं, सव्वत्य वि तुलभावाओ ||४१७|| व्याख्या - (न) केवलमेकस्मिन् पूजिते सर्वे पूजिता भवन्त्यपित्वे कस्मिन् जात्यादिना डीलितेऽप्य-पमानितेऽपि सर्वेऽपि ते साधवो हीलिता ज्ञातव्याः । कथमेतदित्याशङ्क्योपपत्तिमाद - ज्ञानादिगुणानां सर्वत्र तुल्यत्वात् पुरुष एवं किल भिन्ना', ज्ञानादिगुणास्तु सर्वत्र त एत्र, पूजाऽपि च ज्ञानादिगुणानामेव, न तु पुरुषमात्रस्येत्ये कस्मिन्साधौ पूजिते सर्वेऽपि तद्वन्तः पूजिता एव, एवं ज्ञानादिगुणवतां हीलनमपीति भाव, इति गाथार्थः ॥ ४१७ || प्रकृतमुपसंहरन्नाह
हा सगुण, साहूणं भत्तपाणमाईहिं । कुज्जा वेयावच्चं धणयसुओ रायतणउव्व ॥ ४१८॥
व्याख्या - तस्माद्यद्येष गुण एकस्मिन् पूजिते समस्तपूजा सिद्धिलक्षणस्तदा साधूनां भक्तनादिभिः कुर्यास्त्वं वैयावृत्यं । अयम्भावः–पञ्चदशस्खपि कर्मभूमिषु जघन्यपदेऽपि कोटिसहस्रपृथक्त्वं चारित्रिणां सर्वदैव प्राप्यते, उक्तं च प्रज्ञप्त्यां- "सामाइयसंजयाणं भंते ! एगसमएणं केवइया होज्जा १, गोयमा ! पडिवजमाणए पहुच सिप अत्थि सिय नत्थि; जइ अस्थि, जहन्त्रेणं एको वा
४ भावनाधिकारे वैयावृत्य महत्व
॥२५७॥