SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥२५६॥ ४ मावनाधिकारे वैयावृत्यद्वार। RSSRA-SINHRS व्याख्या-किम्बहुना तात्पर्य मेवोच्यते-विनय एव अमूलमन्त्रं-मलिकामन्त्राभ्यां पृथग्भूतं, अपूर्वमेव किश्चिदित्यर्थः, जगति परमं वशीकरणं, केषां वशीकरणं? इत्याह-ऐहिकपारत्रिकमुखानां सौभाग्यारोग्यादिवर्गापवर्गादीनां। कथम्भूतानां ?, मनोवाञ्छिताना पुण्यस्य फलाना, सर्वसुखानां विधायी विनय एवेति तात्पर्यमिति गाथार्थः ॥४१४॥ इति सुकृतसुरद्रोमूलमानन्दकन्दः, सुरनरशिवलक्ष्मीकार्मणं कर्मभेदी । प्रतिदिनमनवद्यः पुण्यवद्भिर्विवेयो, विनय इह तदर्हे सर्वतः स्वेष्टसिद्धये ॥१॥ इति पुष्पमालाविवरणे भावनाद्वारे विनयलक्ष्णं प्रतिद्वारं समाप्तम् ॥१३॥ अथ वैयावृत्त्यं विभणिषुः पूर्वेण [सह] सम्बन्धगर्भा गाथामाहविणयविसेसो य तहा, आयरियगिलाणसेहमाईणं। दसविहवेयावच्चं, करिज्ज समए जओ भणियं ॥४१५॥ व्याख्या-यथा विनयस्तथा आचार्यादिषु दशसु स्थाने[९] क्रियमाणत्वाद्दश विधं, व्यावृत्तस्य मावो वैयावृत्त्यं-भक्तपानौषधप्रदानादिरूपं, तदपि कुर्यास्त्वं, केषां? इत्याह-आचार्यग्लानशेक्षकादीना, उक्तं च"आयरियज्वज्झाए, थेरैतवस्तीगिलोणसेहीणं । साहम्मियकुलगणसंध-संगयं तमिह कायव्वं ॥१॥" कथम्भृतं ययावृत्यं ? इत्याह-विनयविशेष एव, समयप्रसिद्धेन केन केनचित्प्रकारेण वैयावृत्यमपि विनय एवेत्यर्थः, अनयैव च प्रत्यासत्या विनयद्वारानन्तरं वैयावृत्त्यद्वारमुक्तं, इत्यधिकृतद्वारस्य सम्बन्धः सूचितः। कुत इदं कर्तव्यं ? इत्याह-समयेसिद्धान्ते यतो भणितमिति गाथार्थः ॥४१५।। समयोक्तमेवाह ॥२५६॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy