________________
पुष्पमाला लघुवृत्तिः
॥३४३ ॥
पक्वतेव पूर्वमभ्रात्रा चित्रेण विचित्रवचनोक्तिभिर्बोध्यमानोऽपि न कथमप्यसौ प्रतिबुद्धः पर्यन्ते परिक्षीणपुण्योदयेन प्रकृतिकब्राह्मणमात्रनियुक्त गोपाला कर्षितनेत्रो रौद्रध्यानो संगतच मृत्वा सप्तमपृथिव्याम प्रतिष्ठाननरकावासे समुत्पन्नो, व्यासार्थश्चित्रसम्भूतीयाध्ययनादवसेयः। यदीत्थं चुलन्यपि ब्रह्मदत्तस्य मारणाय प्रवृत्ता ततः कोऽत्र मातृप्रेम्णि प्रतिबन्धः ? इति चुलनीकथा समाप्ता ॥ अथ कनकरथ [नृप] कथानकं कथ्यते - तेतलिपुरे नगरे राजा कनकरथः, सकलान्तःपुरप्रधाना तजाया पद्मावती, तन्मन्त्री तेतलितनामा राज्यचिन्तां करोति । अन्यदा राज्य सुखतृषितेन राज्ञा विविधयातनाभिर्जाताः स्वसुता 'वर्द्धमाना मे राज्यं हरिष्यन्ती'त्यभिप्रायेण सर्वे मारिताः । तवस्तेतलिसुतमन्त्रिणाऽन्यदा 'पद्मावत्या अथ दारिका जाता, साऽपि मृतेति व्याजेन कनकध्वजस्तत्सुतः स्वगृहे निधाय रक्षितः, स च कनकरथे मृते राज्येऽभिषिक्त इति । इह यदीत्थं कनकरथोऽपि पुत्राणां व्यापाद कोऽजनि ततः कः पितृजनप्रेम्ण प्रतिबन्धः १, इति कनकरथकथा समाप्ता ॥
अथ भरतारूपानकमुच्यते — श्रीभदेवपुत्रौ मरतबाहुबलिनौ, राज्यार्थ द्वावपि भ्रातरौ युद्धाय प्रवृत्तौ तत्रादौ दृष्टियुद्धं ततो वाग्युद्धं ततोऽपि बाहुयुद्धं ततो मुष्टियुद्धं ततो दण्डयुद्धं जातं, किन्तु सर्वत्र बाहुबली जयति भरतो हारयति । स्तः स विषण्णश्विन्तयति-किमेष चक्री ? मम निकलप्रयासः १ । तात्रता देवताऽधिष्ठितं चक्ररत्नं स्फुरत् भरतकरतले समागत्योपविष्टं, ततः स चक्रेण बाहुबलिनं हन्तुं प्रधावितः । तावद्वाहुबली चिन्तयति-चक्रेण सममेवैनं चूर्णयामि । अथवा दण्डयुद्धे प्रारब्धे चक्रेणोपस्थित एषः, ततो भ्रष्टप्रतिज्ञोऽयं स्वयं मृतो वराकः, तुच्छानां कामभोगानां कार्ये यद्यसौ महात्मा अरुजित एवं करोति, तथापि न मे युज्यते बान्धवत्रधः कर्त्तुं ततः प्राह-चक्रेण सममपि त्वां चूर्णयामि परं लोका मणिष्यन्ति - श्री ऋषभत एत्रमकृत्यं कृतवान्,
४ मावनाधिका प्रेम्णोऽसारत्ये
चुलन्यादि
दृष्टान्ताः ।
॥ ३४३॥