________________
पुष्पमाला लघुवृत्तिः ॥३४२ ॥
ऽतिचिरखं-अविनिर्वेदजनकं ज्ञाषते, कथम्भूतम् । इत्याह- मूढहृदयानां - बाल प्रकृतीनां प्राणिनां विवेष्टितं विजृम्भितं, कया हेतुभूतया तद्विरसं ? इत्याह- त्रह्मदच जनन्याश्रुलन्याः कथया मातृप्रेम तावदतिविरसं निश्चियते । कन करथराज विचेष्टितेन च पितृप्रेम, तथा भरतनृपतिचरितश्रवणेन बन्धुप्रेम, प्रदेशीनामकनृपतिभार्याचरितश्रवणेन भार्याप्रेम, अशोकचन्द्रः - कूणिकस्तच्चरितश्रवणेन सुतप्रेम, आदिशब्दादपरैरपि समय लोकप्रसिद्धैर्जन्तुभिस्तद्विरसता भावनीयेति गाथाद्वयाक्षरार्थः ३८६-८७ ॥
अत्र कथानकानि पुनरेवं क्रमेणोच्यन्ते, यथा-आदौ चुलनीकथानकं तच्चेदम्- साकेत पुरखामी चन्द्रावतंसक राजसूनुना मुनिचन्द्रेण प्रपन्नत्रनेनाटव्यां चत्वारो गोपालदारकाः प्रतिबोध्य प्रवाजिताः, तन्मध्ये जिनधर्मजुगुप्सया श्रामण्यं विराध्य द्वौ देवलोके समुत्पन्न, ततोऽपि च्युत्वा दशार्ण पुरे दासौं, ततोऽपि विषधरदष्टौ मृत्वा कालिञ्जरपर्वते मृगौं, ततोऽपि गङ्गातटे हंसौ, ततो वाराणस्यां चित्रसम्भूतनामानौ मातङ्गदारकावुत्पन्नौ । तत्र सम्भूतः सनिदानचारित्रः चित्रस्तु निरतिचारचारित्रो, द्वावपि सौधर्म देवलोके समुत्पन्नौ, ततोऽपि च्युत्वा चित्रः पुरिमतालपुरे इभ्यपुत्रतया समुत्पन्नः सम्भूतस्तु पञ्चालजनपदे काम्पिल्पपुरे ब्रह्म नरेन्द्रराज्ञ्यालन्या ब्रह्मदत्तपुत्रः समुत्पन्नः, तद्बालत्वेऽपि म्रियमाणेन ब्रह्मरराजेन 'मवद्भिरेवायं बालको राज्यं कारयितव्य' इत्युक्त्वा काशी जनपदाघिपतिकटक - गजपुरप्रभुकणेरुदत्त - कोशलाविषयस्वामिदीर्घ - चम्पापुरीप्रभुपुष्पचूलाभिधानानां निजभित्राणां ब्रह्मदत्तः समर्पितः । तन्मध्ये दीर्घे चुलनी समासक्ता, तदनु रागमूढमानसया च तयाऽभिनवपरिणीतं स्वपुत्रं ब्रह्मदत्तं सप्रियं जतुगृहमध्ये प्रक्षिप्य ममन्तादहनः प्रदीपितस्तन्मध्याच्च धनुर्मन्त्रिविरचितोपायेन तत्सुतवरधनुना सार्द्धं ब्रह्मदत्तोऽपि निर्गत्य देशान्तरेषु भ्रान्तस्तेषु च बह्वी ब्राह्मणवण भूपाल विद्याधरपुत्रिकाः संविधानपूर्वकं परिणीतवान् । क्रमेण च दीर्घराजं निहत्य भरतक्षेत्रं प्रसाध्य चक्रवर्त्तिपदं प्राप्तत्रान् । ततः प्रवि
४ मावनाधिका प्रेम्णोऽसारतायासुदाहरणानि
॥ ३४२ ॥