SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥ ३३९॥ सुखं संसारे, एतेनालोचनाप्रदानेऽपि भवविराग एवेष्टार्थसाधक इत्यालोचनाद्वारानन्तरं भवविरागद्वारमुच्यते इति गाथार्थः ॥ ३७८ ॥ ॥ तत्र नरकेषु यथा न सुखं तथाऽऽह दीहं सुसंति कलणं, भांति विरसं रसंति दुक्खत्ता । नेरइया अवरोप्पर - सुरखितसमुत्थवियणाहिं ॥ ३७९ ॥ व्याख्या - दीर्घ श्वसन्ति श्वासान् गृण्हन्ति, कलुणं - दीनं भाषन्ते विरसं रमन्ति-आरटन्ति, दुःखार्त्ता नारकाः । कामिः ? इत्याह-परस्परं च सुराश्च क्षेत्रं च परस्परसुरक्षेत्राणि, तेभ्यस्समुत्था:- प्रादुर्भूता या वेदनास्तामिः । नारकाणां हि नरकत्रयं यात्रिविधा वेदना, पुरतस्तु परमाधार्मिकसुरगमनाभावाद्विविधेवेति गाथार्थः ॥ ३७९ ॥ अथ नारकदुःखानां प्रत्येकं मणितुमशक्यत्वात्संक्षिपन्नाह - जं नारयाण दुक्खं, उक्कत्तणदहणछिदणाईयं । तं वरिससहस्से हि वि, न भणेज्ज सहस्तवयणो वि ॥ ३८०|| व्याख्या -पन्नारकाणां दुःखं उत्कर्चनद्दहनछेदनादिकं तद्वर्षसहस्रैरपि न भणेन् सहस्रवदनः शक्रोऽपीति गाथार्थः ॥ ३८० ॥ इदं तावारकाणां दुःखं केवलिवचनगम्यं, तिरथां तु दुःखं लोकस्यापि प्रत्यक्षमेवेत्याहसीउण्हखुप्पियामा दहणं कणवाह दोहदुक्खेहिं । दूमिज्जति तिरिक्खा, जह तं लोए विपचक्ख ॥। ३८१ ॥ व्याख्या - शीतोष्ण क्षुत्पिपासाः प्रतीताः, दहनं वनदवादिना, अङ्कनं त्रिशूलाद्याकारेण दम्भदानादि, वाहः - स्कन्धादिना ४ भावनाद्वारे भवविरामारुवं प्रतिद्वारम् । ॥ ३३९॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy