________________
भावनाधिकारे अलोचनादोषा।
-
व्याख्या-आवर्जितो गुरुः स्तोकं मे प्रायश्चित्तं दाखतीति बुद्ध्या गुरुं वैयावृत्यादिना आकम्प्य-आवालोचनं दोषः, पुष्पमालामा तथा अनुमान्य-अनुमानं कृत्वा लघुतरापराधिनां मृदुदण्डप्रदायकत्वादिस्वरूपमाकलय्यालोचनं, एवं यदाचार्यादिना दृष्टमपराधजातं संघुवृत्तिः ।
तदेवालोचयति, नापरं, तथा बादरमेवालोचयति, न पूक्ष्म, तत्रावज्ञापरत्वात , तथा सक्ष्ममेव दोषमालोचयति, न बादरं, यः किल ॥३३६॥
सूक्ष्ममप्यालोचयति स कथं बादरं नालोचयेदित्येवं भावज्ञापनार्थमाचार्यस्येति; तथा छन्न-प्रच्छन्नमालोचयति, लज्जादिकारणतोऽत्यव्यक्तवचनेन वक्तीत्यर्थः; तथा शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोचपति, अगीतार्थादीनामपि श्रावयतीत्यर्थः, तथा | बहवो जना आलोचनायां यत्र तबहुजनं, एकस्याप्यपराधस्य बहुभ्यो निवेदनमित्यर्थः; तथा अव्यक्तो-गीतार्थस्तस्य यद्दोपालोचनं तदप्यव्यक्तमिह विवक्षितं; "तस्सेवि" ति शिष्यो यं दोषमालोचयति तमेव सेवते यो गुरुरसौ तत्सेवी, तस्मै यदालोचनं सोऽप्यालोचनादोष इति गाथार्थः ॥३७॥
यद्येते आलोचनादोषास्तहिं किम् ? इत्याह३ एयदोसविमुकं, पइसमयं वड्ढमाणसंवेगो। आलोएज्ज अकज्ज, न पुणो काहंति निच्छइओ॥३७२॥
व्याख्या-एतद्दोषविमुक्तं यथा भवति तथा प्रतिसमयं बर्द्धमानसंवेगस्सन् पुनरप्यमुं दोषं न करिष्यामीति कृतनिश्चयः |स्वकृतमकार्यमालोचयेत् , अन्यथा आलोचनादानस्य वैयर्थ्यप्रसङ्गादिति गाथार्थः ॥३७२॥
नन्विदानी प्रायश्चित्तं तदातारश्च न सन्त्येव, तत्कः कस्यालोचनां दास्यतीति ये प्रास्तत्सम्बोधनार्थमाह
ॐॐॐॐॐॐॐ
-