________________
शुष्पमाला लघुवृत्तिः
॥ ३३५ ॥
जनविरागं ज्ञात्रा स्वं भिन्दन् तथा विशुद्धभावोऽजनि यथोत्पन्नं तस्यापि केवलहानं । तत इलापुत्रः केवली यथा प्रियायामनुरागोऽनालोचितो दुःखदो जातः प्रियायाश्च जाति मदोऽनालोचितो नीचकुलहेतुर्जातस्तत्सर्वं सर्वजनस्योक्त्वा ततः प्रतिबोध्य बहुजनं चत्वारोऽपि कर्मक्षयादनन्तं मोक्षसुखं प्राप्ताः, इति इलापुत्रकथा समाप्ता ॥
अथ लञ्जादिभिः खदुश्चरितं गुरुभ्योऽनिवेदयतां यो दोषस्तमाह
लज्जाए गारवेण व, बहुस्सुयमएण वा वि दुच्चरियं । जे न कहंति गुरूणं, न हु ते आराहगा हुंति ॥ ३६९॥ व्याख्या - लज्जया आत्मनो गौरवेण वा बहुश्रुतमदेन वाऽपि ये गुरूणां स्वदुश्चरितं न कथयन्ति ते नरा नैवाराधका भवन्तीति गाथार्थः || ३६९ || किश्व -
नवितं सत्थं व विसं, दुप्पउत्तो व कुणइ वेयालो । जं कुणइ भावसल्लं, अगुद्धियं सन्नदुहमूलं ॥ ३७० ॥ व्याख्यानैत्र शखं विषं वा प्रतीतं, दुष्प्रयुक्तः- प्रकोपितो वेठालो वा तदुःखं-करोति, यत्सर्वदुःखमूलं भावशल्य मनुद्धृतं सरकरोतीति गाथार्थः ॥ ३७० ॥
अथालोचनाप्रदानोपस्थितेन वर्जनीयान् दोषानाह
आकंपइत्ता अणुमाणइत्ता, जं दिडं बायरं व सुहुमं वा । छन्नं सद्दालुयं, बहुजण अव्वत्ततस्सेवी ॥ ३७१॥
४ भावनाधिकारेSनालोचने नारा
धकत्वम्
||३३५ ॥