________________
पुष्पमाला लघुवृत्तिः ॥३३४॥
४मावनाधिकारे इलापुत्रकथा।
ॐACROSECXSCORK CS4
विहाय तदेव कृतं, शिक्षितं सातिशयं शिल्पं । ततस्ते भणन्ति-अर्जय विवाहार्थ धनं, ततः परिणयेमां, तदप्यभ्युपगम्य नटपेटकेन सामिलापुत्रो गतो बेनातट, राज्ञोऽग्रे नचिंतुं सामग्या गतः, निखातश्चात्र महावंशः, तद्ध महत्काष्ठं, तस्य द्वयोरन्तयोद्वौ द्वौ लोहकीलको, तत्राचटच्चेलापुत्रोऽसिखेटकव्यग्रकश्छिद्रपादुके परिधाय सप्तकरणानभसि पश्चादभिमुखं सप्त चाग्राभिमुख, एवं चतुर्दश करणान् ददाति, प्रतिकरणं च पादुकाछिद्रयोः कीलको निवेशयति, सा नटकन्या च वंशमूले तिष्ठति, तपाक्षिप्तचेताचिन्तयति नृपतिः-यद्यसौ पतित्वा म्रियते तदाऽहं परिणयामीति, लोकः स्माह-साधु साधु नृत्य, ददातु पारितोषिके देवो यथा वयमपि दद्मः | किञ्चित्, नृपः शठतया स्माह- न मया सम्यगवलोकितं, पुनर्नु त्यतु, ततो राज्ञो भावं विज्ञाय जनः श्याममुखीभूतः, इलासुतस्तु | प्राग्वच्चतुर्दशाकरणांछोभादत्ते, राजा पतनेच्छया पुनर्न सम्यग्दृष्टं इति प्राह । ततः प्रद्विष्टो जन इतरः, पुनर्नृत्यति, एवमष्टाविंशतौ करणेषु दत्तेवपि राजा तयैवेच्छया तथैवाह, ततो राज्ञि सो जनस्तथा विरक्तो जातो यथा समक्षमेव नृपमाकोशते । इलापुत्रेण च ज्ञातो राज्ञो मनोगतो भावः । प्रत्यासन्ने चेश्वरगेहे भक्तिव्यक्तिमिलत्स्कारशृङ्गारसुन्दरीभिः प्रतिलाभ्यमानः शुद्धपणोपयुक्ताः केऽपि साधवो दृष्टाः। तत इलापुत्रः संवेगमुपगतश्चिन्तयत्येवं-अहो!! मोहस्स महाविलासः, येनाहं तथाविधोत्तमकुलोत्पन्नोऽप्येवं दुःखावस्था प्रापितोऽस्मि। तत एते एव धन्या मुनयो, ये दोत्सारितविकारलेशाः प्रशान्तमनसो ब्रह्मवतं धरन्ति, एतेषामेव मागों ममापि प्रमाणं, इति भावनां भावयतः पारिणामिकं चारित्रं जातं, समुत्पन्नं च केवलज्ञानं, नव्वदूरपि नृपस्य भावं तथाविधं विज्ञायाचिन्तयत् , यथा-धिग्मे यौवनं, येनायं इलापुत्र एनादृशमनर्थ प्रापितः, संसारश्च सर्वोऽपि दुःखाकर इति भावयन्त्यास्तस्याः केवलज्ञानमुत्पन, इतश्च नृपपार्श्वस्थाया अग्रमहिन्याश्च राज्ञश्चित्ताभिप्रायपरिज्ञानाद्वैराग्यं गतायाः केवलं समुत्पन्न, राजापि च
॥३३४॥