SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥ ३२९ ॥ ! चिकी : श्री आर्द्रकुमारः श्री अभयार्थं तेषां मुक्ताफलादि समर्पयति सन्दिशति च "दूरस्थान्यपि मित्राणि, मित्राणामुपकुर्वते । तावत्यभ्यन्तरे पश्य, पद्मेषु रविणा कृतम् ॥१॥ त्वन्निर्मलगुणग्राम - रज्जुसन्दानितं मनः । मदीयं श्रीमदभय!, जानीहि खान्तिके स्थितम् ||२|| " अथ प्रतिप्राभृतं दत्वाऽऽर्द्रराजेन विसृष्टास्ते राजगृहं गत्वा श्रेणिका भययोस्तद्दत्वाऽऽर्द्रकुमारसन्दिष्टमभयायाख्यन्, अभयस्त्वचिन्तयत्" मृगा मृगैस्सङ्गमनुव्रजन्ति, गावश्च गोभिस्तुरगास्तुरङ्गैः । मूर्खास्तु मूर्खेस्सुधियस्सुधीभिः समानशीलव्यसनेषु सख्यम् ||१|| " तन्नूनमयं मया मैत्रीमासूत्रवन् कोऽप्यासन्न सिद्धिकः पूर्वमीषद्विराद्धश्रामण्यादनार्येषुत्पन्नस्तत्केनाप्युपायेनैनं जिनधर्म बोधयामि, यतः - " प्रवर्त्तयति धर्मे य-ज्जीवं मोहवशानुगं । निवर्त्तयति पापान्तु तत्सुमित्रमुदाहृतम् ||१||" तदद्भुतां काञ्चिजिनप्रतिमां प्रेषयामि तद्दर्शनात्कदा चिजातिं स्मरेदिति युगादिजिनप्रतिमामनुपमरत्नमयीं धूपदहनघण्टाद्युपकरणमहितां मञ्जूषायां क्षिप्त्वा मुद्रां च कृत्वा राजपुरुषाणां हस्ते प्रस्थापयति सन्दिशति च साधुशिरोमणे ! तव न किश्चिदुपकर्तु महं क्षमस्तथापि किश्चिदिदं प्रेषितमस्ति, तन्मामनुगृह्य क्वचिद्गूढापत्ररके महान्धकारे एकाकिनोद्घाट्य यत्नेन निरीक्षणीयमिति । तैरपि नीत्वा तदर्द्धकुमारस्यार्पितं सन्देशयोक्तः । हृटेन तेनापि सन्दिष्टरीत्योद्घाटिता मञ्जूषा, दृष्टा च निजप्रभापटलेन प्रधोतनमम्युपहसन्ती युगाद्विजितप्रतिमा । ततोsहो ! । अपूर्व महोः ! अपूर्वमिदमाभरणं शीर्षकण्ठादौ क्व परिधीयते । इति न जाने, अथवा क्वचिदृष्टमिति चिन्तयतस्तस्य : जातिस्मरणमुत्प्रभं ततः पूर्व यथा गृहीतं यथा च विराद्धं श्रामण्यं तथा स्मृत्वा संकेशमापत्रचिन्तयत्यही !! मनः ४भावनाधिकारे भावशल्यानुद्धरदे आर्द्रकुमारवृचम् ॥ ॥२२९॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy