________________
४भावनाधिकारे
आलोचनया | भावशल्यानु रणदोषे आद्रकुमारवृत्तम् ।
व्याख्या-यथा सुकुशलो-नानाचिकित्साचतुरोऽपि वैद्य आत्मनो व्याधि अन्यस्य कथयति, एवं शुद्धिं जानतोऽप्याचा पुष्पमाला परसमीपे एव शल्योद्धरणमिति गाथार्थः ॥३६७॥ विधिविस्तारस्तु छेदग्रन्थेभ्योऽवसेयः, अथ तदोषद्वारं विभणिषुः सूक्ष्मेऽप्यपराधपदे लघुवृत्तिः | अनालोचिते यो दोषः सम्पद्यते तं सदृष्टान्तमाह॥३२८॥ ४ अप्पं पि भावसल्लं, अणुद्धियं रायवणियतणएहिं । जायं कडयविवागं, किं पुण बहुयाई पाबाई? ॥ ३६८॥
व्याख्या-इह च राजतनयेनार्द्रकुमारेण वणिक्तनयेन इलापुत्रेण चानुद्धृतं-गुरुभ्योऽनिवेदितं खपमपि भावशल्यं जीवघातमृषावादादि. कटुविगकं-दारुणफलं जातं, किं पुनर्बहूनि पापानि ।
तत्रार्द्रकुमारकथा त्वे-कविद्वसन्तपुरवासी सोमादित्यनामा बन्धुमतीपत्न्या सह श्रीसुस्थितमूरिसकाशे वैराग्यात्प्राबाजीत् ।। सम्यगध्ययनतपोचयावृत्यादिपरो गुरुभिस्सम विहरति । अन्यदा भार्यां साध्वीं दृष्ट्वा पूर्वविलसितानि स्मृत्वा तस्यां तस्य साधोमनः सरागमभूत । ततोभावनासहदैनिवय॑मानमपि यदा)दि तस्यां मनो न निवर्तते ततस्तेन सङ्घाटकसाधोरुक्तं-मो! यदाऽहमेनां पश्यामि तदा मे मनः सरागं स्यादिति । तेनापि तदुक्तमुक्तं बन्धुमतीसाध्व्याः , ततः साऽऽत्मानं तस्य कर्मबन्धकारणभूतं विचिन्त्य गुरुण्याश्चाख्यायानशनं गृहीत्वा वर्ग गता । स साधुरपि तद्विज्ञायाहो!! सा मबतरक्षार्थ प्राणानत्याक्षीदहं तु भावतो व्रतभङ्गमकार्ष तस्याश्च मृत्यवे जातस्तदथो महापातकिनः किं मे जीवितव्येन ? इति विचिन्त्यानशनं गृहीत्वा तत्स्थानमनालोच्यैव खर्ग गतः । ततश्श्युत्वाऽनायें आर्द्रदेशे आर्द्रप्ररे आर्द्र(क)राजस्यानाम्ना स पुत्रो जातः । सकलकलाकुशलस्तारुण्यं प्राप । अन्यदा क्रमागतस्नेहवृद्ध्यर्थ श्रीश्रेणिकक्ष्मापालेन प्रेषितं प्राभृतं गृहीत्वा श्रीआईकराजोपान्तिकमागतेभ्यः प्रधानेभ्यः सकाशात् श्रीअभयकुमारगौरवमाकर्ण्य तेन सह प्रीति
॥३२८॥